________________
४८३
अष्टादशं संयतीयमध्ययनम् कथं पुनरात्मनः परलोकादिसद्भावं जानासीत्याह
अहमासि महापाणे जुइमं वाससओवमे । जा सा पाली महापाली दिव्वा वरिससओवमा ॥२८॥ से चुए बंभलोगाओ माणुसं भवमागओ ।
अप्पणो य परेसिं च आउं जाणे जहा तहा ॥२९॥ __ अनयोाख्या-अहमभवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् 'वाससय'त्ति मध्यमपदलोपी समास इति वर्षशतजीविता उपमा यस्य स वर्षशतोपमः । यथेदानीं वर्षशतजीवी पूर्णायुरुच्यते, एवमहं तत्र सम्पूर्णायुरभूवम् । तथाहि या सा पालिरिव पालिर्जीवितजलधारणाद् भवस्थितिः सा च पल्योपमप्रमाणा, महापाली तु सागरोपमप्रमाणा तस्यास्ततो महत्त्वात् । दिवि भवा दिव्या । तथा-"वाससए वाससएक्किक्के अवहियमि जो कालो" इत्यादिवचनात् केशोद्धारहेतुभिर्वर्षशतैरुपमा 'अर्थात् पल्यविषया' यस्यां सा वर्षशतोपमा । तत्र मम महापाली दिव्या भवस्थितिः 'आसीदित्युपस्कारः' ।। 'से' इत्यथ स्थितिक्षये च्युतो ब्रह्मलोकान्मानुष्यं भवमागतः । जातिस्मरणातिशयमाख्यायातिशयान्तरमाह-आत्मनश्च परेषां चायुर्जाने यथाऽस्ति तथैव, न त्वन्यथेत्यभिप्रायः ॥२८-२९।। इत्थं प्रसङ्गतः परितोषतश्चापृष्टमपि स्ववृत्तान्तमभिधायोपदेष्टुमाह
नानारुइं च छंदं च परिवज्जिज्ज संजए ।
अणट्ठा जे य सव्वत्था इइ विज्जामणुसंचरे ॥३०॥ व्याख्या-नाना अनेकधा रुचि क्रियैकान्ताद्यभिलाषं नानारुचि छन्दश्च स्वविकल्पिताभिप्रायरूपं परिवर्जयेत् संयतो यतस्तथा । अनर्था निष्प्रयोजना ये च 'व्यापारा इति गम्यते' तानपि सर्वत्र वर्जयेदिति सम्बन्धः' । आकारोऽलाक्षणिकः । इत्येवंरूपां विद्यां तत्त्वज्ञानात्मिकामनुलक्षीकृत्य संचरे: संयमाध्वनि यायाः ॥३०॥ अपि च
पडिक्कमामि पसिणाणं परमंतेहिं वा पुणो ।
अहो उट्ठिए अहोरायं इइ विज्जा तवं चरे ॥३१॥ व्याख्या-प्रतिक्रमामि निवर्ते प्रश्नेभ्यः शुभाशुभसूचकेभ्यो दीपप्रश्नादिभ्यः । १. वर्षशते वर्षशतैकैकेऽवहिते यः कालः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org