________________
४८२
उत्तरज्झयणाणि-२ परिनिर्वृत इति कषायाग्निशमनाच्छीतीभूतो विद्या-चरणाभ्यां क्षायिकज्ञान-चारित्राभ्यां सम्पन्नोऽत एव सत्यः सत्यवाक् सत्यपराक्रमोऽवन्ध्यवीर्य इति ॥२४॥ तेषां च फलमाह
पडंति नरए घोरे जे नरा पावकारिणो ।
दिव्वं च गई गच्छंति चरित्ता धम्ममारियं ॥२५॥ व्याख्या-पतन्ति नरके घोरे ये नराः पापकारिणः प्रस्तुतत्वादुन्मार्गप्ररूपणात्मकविधायिनः । ये त्वनीदृशास्ते पुनर्दिव्यां गतिं गच्छन्ति । किं कृत्वा ? चरित्वा आसेव्य धर्मं 'आरिय'ति आर्य सत्प्ररूपणारूपं ततश्च सत्प्ररूपणापरेणैव भवता भाव्यमित्युपदेशार्थः ॥२५॥ अमीषां पापकारित्वमुपपादयति
मायाबुइयमेयं तु मुसाभासा निरस्थिया ।
संजममाणो वि अहं वसामि इरियामि य ॥२६॥ व्याख्या-मायया शाठ्येन 'बुइयं ति उक्तं मायोक्तम् । एतत् क्रियादिवादिवचनम् । "तुरवधारणे' ततश्च मायोक्तमेवैतत् । अतश्चैतन्मृषाभाषा निरर्थिका प्रयोजकार्थशून्या । तत एव 'संजममाणो विपत्ति 'अपिरेवकारार्थः' ततः संयच्छन्नेव उपरमन्नेव तदुक्त्याकर्णनादिभ्योऽहं वसामि तिष्ठामि ‘उपाश्रयादाविति गम्यते' । 'इरियामि'त्ति इरैव कोऽर्थः ? ईर्यया यामि गच्छामि च गोचरादिष्विति । इह च स्वयं स्वस्वरूपकथनं तन्मनःस्थिरीकरणार्थम् । उक्तं हि "गुणसुट्ठियस्स वयणं घय-महुसित्त व्व पविभाइ" इति ॥२६॥ स्वस्य तद्वचनाकर्णनादिनिवृत्तेः कारणमाह
सव्वे ते विइया मज्झं मिच्छाद्दिट्टी अणारिया ।
विज्जमाणे परे लोए सम्मं जाणामि अप्पगं ॥२७॥ व्याख्या-सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयोस्त एवानार्या अनार्यकर्मप्रवृत्ताः । कथं विदिता इत्याह-विद्यमाने सति परे लोकेऽत्र जन्मनि सम्यग् जानाम्यात्मानम् । ततः परलोकात्मनोः सम्यग्ज्ञानान्मम ते विदिता अतो मा मिथ्यात्वात् परत्र नरकादिभवभ्रमणं भूयादिति तदुक्त्याकर्णनादिभ्यः संयच्छामीति ॥२७||
१. गुणसुस्थितस्य वचनं घृतमधुसिक्तमिव प्रविभाति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org