________________
अष्टादशं संयतीयमध्ययनम्
४८१ व्याख्या-'नामेत्यामन्त्रणे' अहं संजयो नाम्ना, तथा गोत्रेण गौतमः । शेषप्रश्नत्रयोत्तरमाह-गर्दभालयो नामानो ममाचार्या विद्याचरणपारगाः श्रुतचारित्रपर्यन्तगामिनः । एवं च कथयतस्तस्यायमेवाभिसन्धिः । गर्दभाल्याचार्यैर्जीवघातात् निवतितोऽहं तैश्च श्रुत-धरैस्तन्निवृत्तौ मुक्तिस्वरूपं फलमभ्यधायि । तदर्थं माहनोऽस्मि । तदुपदेशानुसारतो गुरूनपि प्रतिचरामि । तच्छासनसावधानत्वाद् विनीतश्चेत्यर्थः ॥२२॥ अथ तद्वचनश्रुतप्रमुदितमना अपृष्टोऽपि क्षत्रियमुनिस्तं प्रति तत्त्वोपदेशमाह
किरियं अकिरियं विणयं अन्नाणं च महामुणी ! ।
एएहिं चेव ठाणेहिं मेयन्ने किं पभासई ? ॥२३॥ व्याख्या-क्रियाऽस्तीत्येवंरूपा, अक्रिया तद्विपरीता, विनयो नमस्करणादिः । 'सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात्' । अज्ञानं तत्त्वानवगमश्चेति । हे महामुने ! एतैः क्रियादिभिश्चतुभिः स्थानैः कृत्वा 'मेयन्ने'त्ति मेयं प्रमेयं जीवादि जानन्तीति मेयज्ञाः स्वाभिप्रायकल्पितैः क्रियादिभिर्वस्तुपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं प्रभाषन्ते, विचाराक्षमत्वात्, तथाहि-ये तावत् क्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः, कर्ता अकर्ता, मूर्तोऽमूर्तोऽसावित्याद्येकान्तवादमभ्युपगताः । कुत्सितभाषणं चैतद् युक्त्यागमबाधितत्वात् । तथाहि-विभुत्वाद्यङ्गीकारे तल्लिङ्गभूतचैतन्यस्य सर्वत्रोपलम्भप्रसङ्गः । अङ्गष्ठपर्वमात्राधिष्ठातृतायां स्वरूपाविभुत्वैकान्ते शरीरव्यापिचैतन्यानुपपत्तिरेवं कर्तृत्वाद्यनुपपत्तिरपि वाच्या । अक्रियावादिनस्त्वस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येवैतच्चासङ्गततरं प्रत्यक्षादिप्रमाणप्रसिद्धत्वात् तस्य । वैनयिकवादिनस्तु सुर-नृपतियति-चतुष्पद-पक्षि-मकरादिनमस्करणान्निवृत्तिमभ्युपगताः । अन्याय्यं चैतल्लोके समये च गुणाधिकस्यैव विनययोग्यत्वेन प्रसिद्धत्वात्, इतरस्याप्रयोजकत्वात् । अज्ञानवादिनस्तु कीटसङ्ख्यापरिज्ञानतुल्येन किमात्मादिज्ञानेन, तपःप्रभृतिकष्टादेवेष्टसिद्धिरिति प्रतिपन्नाः । इदं चात्यन्तमयुक्तं ज्ञानं विना सत्प्रवृत्तेरप्यनुपपत्तेः । अतः सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति स्थितम् । एतद्विस्तरस्तु बृहट्टीकातोऽवसेयः ॥२३॥ न चैतन्मयैवोच्यते, किन्तु
इइ पाउकरे बुद्धे नायए परिनिव्वुए ।
विज्जाचरणसंपन्ने सच्चे सच्चपरक्कमे ॥२४॥ व्याख्या-इत्येतत् क्रियादिवादिनः कुत्सितं भाषन्त इत्येवं रूपं प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्त्वः ज्ञात एव ज्ञातकः क्षत्रियः स चेह प्रस्तावान्महावीरः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org