SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४८० उत्तरज्झयणाणि-२ अथ तद्वचः श्रुत्वा राजा किमकार्षीदित्याह सोऊण तस्स सो धम्मं अणगारस्स अंतिए । महया संवेग-निव्वेयं समावन्नो नराहिवो ॥१८॥ संजओ चईउं रज्जं निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ अणगारस्स अंतिए ॥१९॥ अनयोक्ख्या -श्रुत्वा आकर्ण्य तस्य प्रस्तुतस्यानगारस्यान्तिके इति सम्बन्धः । स इति सञ्जयाख्यो धर्ममुक्तस्वरूपं 'महय'त्ति 'आर्षत्वान्महत्' संवेग-निर्वेदं समापन्नो नराधिपो राजा ।। ततश्च सञ्जयः सञ्जयनामा त्यक्त्वा राज्यं निष्क्रान्तः प्रव्रजितो जिनशासने, न तु सुगतादिमते इति भावः । गर्दभालेः गर्दभालिनाम्नो भगवतोऽनगारस्यान्तिके सञ्जयोऽयमुपगतवान् । स हि गर्दभालिनामा गुरुरिति सूत्रद्वयार्थः ॥१८-१९॥ स चैवमुपात्तव्रतोऽवगतकृत्याकृत्यविभागः सामाचारीप्रयतश्चानियतचर्यया विहरंस्तथाविधं सन्निवेशमाजगाम । तत्र तस्य यदभूत्, तदाह चिच्चा रटुं पव्वईओ खत्तिओ परिभासई । जहा ते दीसई रूवं पसन्नं ते तहा मणो ॥२०॥ किंनामे किंगुत्ते कस्सट्ठाए व माहणे ? । कहं पडियरसी बुद्धे कहं विणीय त्ति वुच्चसि ? ॥२१॥ अनयोर्व्याख्या-त्यक्त्वा राष्ट्रं देशं प्रवजितः क्षत्रियः क्षत्रजातिरनिर्दिष्टनामा परिभाषते 'सञ्जयमुनिमित्युपस्कारः' । स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युत्वा क्षत्रियकुले समुत्पद्य तथाविधनिमित्ततः स्मृतपूर्वजन्मा तत एवोत्पन्नवैराग्यश्च प्रव्रजितवान् विहरंश्च तत्र सञ्जयमुनिं दृष्ट्वा विमर्शार्थमिदमुक्तवान् । यथा ते दृश्यते रूपमाकृतिः प्रसन्नं निर्विकारं तथा 'ते' तव मनः 'प्रसन्नमिति प्रक्रमः' । तत्कलुषतायां बहिरपि न प्रसन्नतासम्भवः ॥ तथा किनामा ? किंगोत्रः ? 'कस्सट्ठाए'त्ति कस्मै चार्थाय प्रयोजनाय माहनो हिंसानिवृत्तः ? प्रव्रजित इति भावः । कथं वा प्रतिचरसि सेवसे बुद्धानाचार्यादीन् कथं वा विनीतः ? इत्युच्यसे ॥२०-२१।। सञ्जयमुनिराह संजओ नाम नामेणं तहा गुत्तेण गोयमो । गद्दभाली ममायरिया विज्जाचरणपारगा ॥२२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy