________________
अष्टादशं संयतीयमध्ययनम्
४७९ यत्र जीविते रूपे च त्वं मुह्यसि मोहं गच्छसि राजन् ! प्रेत्यार्थं परलोकप्रयोजनं नावबुध्यसे परलोककृत्यावबोधोऽपि नास्ति कुतस्तत्करणं तवेत्यर्थः ॥१३॥ अथ मोहपरिहारार्थमिदमाह
दाराणि य सुता चेव मित्ता य तह बंधवा । जीवंतमणुजीवंति मयं णाणुवयंति य ॥१४॥ नीहरंति मयं पुत्ता पियरं परमदुक्खिया ।
पियरो वि तहा पुत्ते बंधू रायं ! तवं चरे ॥१५॥ अनयोर्व्याख्या-दाराश्च सुताश्चैव मित्राणि तथा बान्धवा अपि जीवन्तमनुजीवन्ति तदुपार्जितद्रव्यभोगाशयाऽनुवर्तन्ते तदनुगच्छन्ति, मृतं पुनर्नानुव्रजन्त्यपि, किं पुनः सह यास्यन्ति ? । अतः कृतघ्नेषु कलत्रादिषु नास्था विधेयेति भावः ॥ अपि च निःसारयन्ति मृतं पुत्राः पितरम् । परमदुःखिता अतिशयसञ्जातदुःखा अपि पितरोऽपि तथा पुत्रान् निःसारयन्ति बन्धवश्च 'बन्धूनिति शेषः' । ततो राजन् । तपश्चरेः व्रतमासेवस्व ॥१४-१५।। तत्पुत्रादयः किं कुर्वन्तीत्याह
ततो तेणज्जिए दव्वे दारे य परिरक्खिए ।
कीलंतन्ने नरा राया हट्ठ-तुटुमलंकिया ॥१६॥ व्याख्या-ततो नि:सारणादनन्तरं तेन पित्रादिनोपार्जिते द्रव्ये दारेषु च परिरक्षितेषु सर्वोपायप्रतिपालितेषु 'आर्षत्वादेकवचनम्' क्रीडन्ति रमन्ते 'तेनैव धनेन तैरेव दारैरिति गम्यम्' अन्ये नरा हे राजन् ! हृष्टाः तुष्टा अलङ्कृताः । तत्र हृष्टाः बहिःपुलकिताः, तुष्टाः मन:समाधिभाजः, अलङ्कृता विभूषिताः । इयं च भवस्थितिरीदृशी । अतस्तपश्चरेरिति सम्बन्धः ॥१६।। मृतस्य को वृत्तान्त इत्याह
तेणावि जं कयं कम्मं सुहं वा जइ वा दुहं ।
कम्मुणा तेण संजुत्तो गच्छती उ परं भवं ॥१७॥ व्याख्या-तेनापि पित्रादिमृतेनापि यत् कृतं कर्म शुभं वा यदि वेत्यथवाऽशुभम्। 'तुशब्दस्य व्यस्तसम्बद्धत्वादेवकारार्थत्वात्' तेनैव शुभाशुभरूपेण कर्मणा, न तु धनादिना संयुक्तो गच्छति परं भवं भवान्तरं शुभाशुभयोः कर्मणोरनुयायित्वाच्छुभहेतु तप एव चरेरित्यर्थः ॥१७॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org