________________
उत्तरज्झयणाणि-२
४७८ 'अपराधमिति शेषः' क्षमस्व सहस्व ॥७-८॥
ततश्च
अह मोणेण सो भगवं अणगारे झाणमस्सिए । रायाणं न पडिमंतेइ तओ राया भयहुओ ॥९॥ संजओ अहमस्सीति भगवं ! वाहराहि मे ।
कुद्धे तेएण अणगारे दहिज्ज नरकोडिओ ॥१०॥ अनयोक्ख्या -अथ मौनेन स भगवाननगारो ध्यानमाश्रितो राजानं न प्रतिमन्त्रयते न प्रतिवक्ति यथाऽहं क्षमिष्ये नवेति । ततस्तत्प्रतिवचनाभावादयमवश्यं क्रुद्ध इति राजा भयद्रुतो भयत्रस्तो मां मध्ममप्रकृतिं ज्ञात्वा सुतरां कोपं करिष्यतीति । निजैश्वर्यं ज्ञापयन्नाह 'संजउ'त्ति संयतनामा राजाऽहमस्मि, न तु नीच इत्यस्माद् हेतोाहर सम्भाषय 'मे' इति माम् । न चाहमनर्थकं भयद्रुत इत्याह क्रुद्धस्तेजसा अनगारो दहेन्नरकोटीरपि, आस्तां शतं सहस्रं वेत्यतो भयद्रुत इत्यर्थः ॥९-१०॥ अथ मुनिराह
अभयं पत्थिवा ! तुब्भं अभयदाया भवाहि य । अणिच्चे जीवलोगंमि किं हिंसाए पसज्जसि ? ॥११॥ जया सव्वं परिच्चज्ज गंतव्वमवसस्स ते ।
अणिच्चे जीवलोगंमि किं रज्जंमि पसज्जसि ? ॥१२॥ अनयोर्व्याख्या-अभयं पार्थिव ! राजन् ! 'तुब्भ'त्ति तव 'न कश्चित् त्वां दहतीति भावः' इत्थमाश्वास्योपदेशमाह-अभयदाता च त्वमपि भव यथा भवतो मृत्युभयमेवमन्येषामपीत्यर्थः । अनित्ये जीवलोके किं हिंसायां प्रसजसि ? । अल्पदिनकृते किमित्थं पापमुपार्जयसि ? नेदमुचितमित्यर्थः ॥ इत्थं चानित्यत्वे सिद्ध 'जय'त्ति यदा सर्वं कोशान्तःपुरादि परित्यज्य गन्तव्यं भवान्तरं अवशस्य अस्वतन्त्रस्य 'ते' तव ततोऽनित्ये जीवलोके किं राज्ये प्रसजसि ? हिंसादिनिमित्तत्वादस्य ॥११-१२॥ अनित्यत्वं भावयितुमेवाह
जीवियं चेव रूवं च विज्जुसंपायचंचलं ।
जत्थ तं मुज्झसी रायं ! पेच्चत्थं नावबुज्झसी ॥१३॥ व्याख्या-जीवितं जीवनं चैव रूपं च विद्युत्सम्पातो विद्युच्चलनं तद्वच्चञ्चलं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org