________________
४७७
अष्टादशं संयतीयमध्ययनम् अत्रान्तरे यदभूत् तदाह
अह केसरंमि उज्जाणे अणगारे तवोधणे । सज्झाय-ज्झाणसंजुत्ते धम्मज्झाणं ज्झियायइ ॥४॥ अप्फोवमंडवंमी झायती क्खवितासवे ।
तस्सागए मिए पासं वहेइ से णराहिवे ॥५॥ अनयोर्व्याख्या-अथानन्तरं तस्मिन् केसरोद्यानेऽनगारस्तपोधनः स्वाध्यायोऽनुप्रेक्षणादिः, ध्यानं धर्मध्यानादि ताभ्यां युक्तो यथाऽवसरं तदासेवकोऽत एव धर्मध्यानमाज्ञाविचयादि ध्यायति चिन्तयति ॥ क्वेत्याह-'अप्फोव' इति वृद्धानुवादाद् वृक्षाद्याकीर्णः स चासौ मण्डपश्च तत्र ध्यायति 'धर्मध्यानादीति गम्यते' पुनरभिधानं ध्यानस्य अतिशयकरणीयताख्यापकम् । स च कीदृशः ? क्षपिताश्रवः निर्मूलोन्मूलितकर्मबन्धहेतुः । अथ तस्य मुनेः पाश्र्वं समीपं आगतान् मृगान् हन्ति स नराधिपो राजा सञ्जय इति सूत्रद्वयार्थः ॥४-५॥ तदा च किमभूदित्याह
अह आसगओ राया खिप्पमागम्म सो तहिं ।
हए मिए उ पासित्ता अणगारं तत्थ पासई ॥६॥ व्याख्या-अथानन्तरमश्वगतो राजा क्षिप्रं शीघ्रमागत्य स इति सञ्जयनामा तस्मिस्तपोधनाधिष्ठिते मण्डपे हतान् व्यापादितान् 'तुशब्द एवार्थे' ततो मृगानेव न पुनरनगारं, दृष्ट्वाऽनन्तरमवहितोऽनगारं साधुं तत्र मण्डपान्तः पश्यतीति ॥६॥ ततः किमसावकार्षीदित्याह
अह राया तत्थ संभंतो अणगारो मणाहओ। मए उ मंदपुन्नेण रसगिद्धेण घत्तुणा ॥७॥ आसं विसज्जइत्ताणं अणगारस्स सो निवो ।
विणएण वंदई पाए भगवं ! एत्थ मे खमे ॥८॥ अनयोर्व्याख्या-अथ राजा तत्र मुनिदर्शने सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकं हतो भविष्यति 'तदासन्नमृगहननादित्यभिप्रायः' मया तु मन्दपुण्येन स्तोकपुण्यवता रसगृद्धेन 'घत्तुण'त्ति घातकेन हननशीलेनेत्यर्थः ॥ ततश्चाश्वं विसृज्य अनगारस्य स नृपो विनयेन वन्दते पादौ वक्ति च यथा भगवन्नत्रैतस्मिन् मृगवधे मम
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org