SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयमध्ययनम् अनन्तराध्ययने पापस्थानवर्जनमुक्तम् । तच्च भोगद्धित्यागतः संयतस्यैव भवतीत्यत: संजयोदाहरणतः प्रतिपादयन्नाह कंपिल्ले नयरे राया उदिन्नबलवाहणो । नामेणं संजए नामं मिगव्वं उवनिग्गए ॥१॥ व्याख्या-काम्पील्ये नगरे राजा नृपतिरुदीर्णमुदयप्राप्तं बलं शरीरसमार्थ्यं वाहनं गजाश्वादि यस्यासावुदीर्णबलवाहनः । स च नाम्नाभिधानेन सञ्जयो नामेति प्रसिद्धौ ततश्च सञ्जयनाम्ना प्रसिद्धो मृगव्यां मृगयां प्रति उपनिर्गतो निष्क्रान्त: 'तत एव नगरादिति गम्यम्' ॥१॥ स च कीदृग् विनिर्गतः ?, किं च कृतवानित्याह हयाणीए गयाणीए रहाणीए तहेव य । पायत्ताणीए महया सव्वओ परिवारिए ॥२॥ मिए छुभित्ता हयगओ कंपिलुज्जाणकेसरे । भिए संते मिए तत्थ वहेइ रसमुच्छिए ॥३॥ अनयोर्व्याख्या-विभक्तिव्यत्ययाद् हयानीकेन, गजानीकेन, स्थानीकेन, तथैव च पदातीनां समूहः पादातं तदनीकेन कटकेन महता सुविस्तृतेन सर्वतः परिवारितः सन् । किं ? मृगान् क्षिप्त्वा प्रेरयित्वा काम्पील्यस्य तस्यैव नगरस्य केसरनामकमुद्यानं काम्पील्योद्यानकेसरं तस्मिन् भीतान् त्रस्तान् सतो मितान् परिमितांस्तत्र तेषु मृगेषु मध्ये 'वहेइ'त्ति हन्ति व्यापादवति शरादिभिः कृत्वा रसस्तत्पिशितास्वादस्तत्र मूच्छितो गृद्धः इति सूत्रद्वयार्थः ॥२-३॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy