SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सप्तदशं पापश्रमणीयमध्ययनम् ४७५ व्याख्या-एतादृशो यादृश उक्तः, पञ्च कुशीलाः पार्श्वस्थादयस्तद्वदसंवृतोऽनिरुद्धाश्रवद्वारः पञ्चकुशीलासंवृतः । रूपं रजोहरणादिवेषं धारयतीति रूपंधरः 'प्राकृतत्वात् सूत्रे बिन्दुभावः' । मुनिप्रवराणां 'हिट्ठिमो'त्ति अधोभागवर्ती जघन्यसंयमस्थानवर्तितया निकृष्टः । एतत्फलमाह-'अयंसि'त्ति अस्मिन् लोके विषमिव गर्हितो धिगेनं भ्रष्टप्रतिज्ञमिति नीचैरपि निन्द्यतेऽत एव न स इहेतीह लोके नैव परत्र लोके ‘परमार्थतः सन्निति शेषः' । यस्य नैहिक आमुष्मिकोऽपि गुणलाभस्तस्य सत्सु गणनाभावादविद्यमानतैवेति भावः ॥२०॥ जे वज्जए एय सया उ दोसे से सुव्वए होइ मुणीण मज्झे । अयंसि लोए अमयं व पूइए आराहए लोगमिणं तहा परं ॥२१॥ त्ति बेमि ॥ व्याख्या-यो वर्जयत्येतानुक्तरूपान् सदा दोषान् पापानुष्ठानरूपान् स तादृश: सुव्रतो निरतिचारतया प्रशस्यव्रतो भवति मुनीनां मध्ये भावमुनित्वेन स मुनिमध्ये गण्यत इति भावः । तथा चास्मिन् लोकेऽमृतमिव पूजित आराधयति लोकमिममिहलोकं तथा परं परलोकमिति । इह सकललोकपूज्यतया परलोके च सुगतिप्राप्तेः, ततः पापवर्जनमेव कार्यमिति । इति समाप्तौ ब्रवीमीति प्राग्वत् ॥२१॥ ग्रं० १४१-८॥ इति श्रीकमलसंयमोपाद्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां सप्तदशं पापश्रमणीयमध्ययनं समाप्तम् ॥१७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy