SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४७४ ततः परिजनोऽवादीत् त्वत्पत्नीवचसैव हि । ततो विस्मितचित्तोऽसावन्तरुल्लसितप्रमुत् ॥१०॥ समागात् स्वगृहं चित्रां वीक्ष्य तादृग्गृहश्रियम् । कथं मदागमो ज्ञात इत्यपृच्छन्निजां प्रियाम् ॥११॥ सर्वं गुह्यमषाद्येषा साधुप्रोक्तमचीकथत् । ग्रामाध्यक्षस्ततो रुष्टो मुनौ मिथ्याविकल्पनात् ॥१२॥ युग्मम् परीक्षार्थं समाहूय तं साधुं प्रणिपत्य च । सोऽपृच्छत् कथय त्वं भोः ! यदि विज्ञानवानसि ॥१३॥ वडवाया यथैतस्या गर्भः कीदृग् भविष्यति ? | किशोरः पञ्चपुण्ड्राङ्कोपेतस्तेनेति जल्पितम् ॥१४॥ ग्रामेशस्तत्प्रतीत्यर्थं व्यदारीद् वडवोदरम् । दृष्टो यथावदुक्तोऽथ किशोरः पञ्चचन्द्रकः ॥ १५॥ तेनाभाणि पुनः सत्यं यद्येतद् वचनं तव । नाभविष्यत् तदा तुदं तेऽभविष्यद् विदारितम् ॥१६॥ ततः सत्कृत्य तं साधु विससर्ज स भौतिकः । एवं निमित्ततः सोऽथ पापश्रमणकोऽभवत् ॥१७॥ इति निमित्तादिप्रयोगे साधुकथा ||१८|| अपि च उत्तरज्झयणाणि - २ सन्नाइपिंडं जेमेइ नेच्छई सामुदाणियं । गिहिनिसिज्जं च वाहेई पावसमणि त्ति वुच्चई ॥१९॥ व्याख्या-स्वज्ञातिभिः स्वजनैर्निजकोऽयमिति यः स्निग्धाद्याहारो दीयते, स स्वज्ञातिपिण्डस्तं जेमति भुङ्क्ते । नेच्छति समुदानानि भिक्षास्तेषां समूहः सामुदानिकं बहुगृहसम्बन्धिनं भिक्षासमूहमज्ञातोञ्छमित्यर्थः । गृहिणां निषिद्या तूल्यादिशय्यां वाहयति सुखशीलतया आरोहति यः, स पापश्रमण इत्युच्यत इति ||१९|| अथाध्ययनमुपसंहरन् दोषासेवन - त्यागयोः फलमाह एयारिसे पंचकुसील संवुडे रूवंधरे मुणिपवराण हेट्ठिमे । अयंसि लोए विसमेव गरहिए न से इहं नेव परत्थ लोए ॥ २० ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy