________________
सप्तदशं पापश्रमणीयमध्ययनम्
४७३ अत एव दुर्भूतो दुर्निन्दितं भूतं भवनमस्येति दुर्भूतो दुराचारतया निन्द्यो भूत इत्यर्थः यः, स पापश्रमण इत्युच्यते ॥१७॥ वीर्याचारविषयं तमाह
सयं गेहं परिच्चज्ज परगेहंसि वावडे ।।
निमित्तेण य ववहरे पावसमणि त्ति वुच्चई ॥१८॥ व्याख्या-स्वकमात्मीयं 'गेहं' गृहं परित्यज्य त्यक्त्वा प्रव्रज्याऽङ्गीकरणत: परगृहेऽन्यगृहे 'वावडे'त्ति व्याप्रियते पिण्डार्थी सन् स्वतस्तत्कृत्यानि कुरुते इत्यर्थः । निमित्तेन च शुभाशुभसूचकेन वचनेन व्यवहरति द्रव्यार्जनं करोति यः, स पापश्रमण इत्युच्यते । अत्रार्थे दृष्टान्तस्तथाहि
कस्मिंश्चित् सन्निवेशेऽभूत् क्षत्रियो ग्रामनायकः । महाराजाज्ञया सोऽगाद् द्रष्टुं देशान्तरं सुधीः ॥१॥ काले भूयस्तरे जाते तद्भार्या रमणोत्सुका । भिक्षार्थमागतं कञ्चित् साधुमेकमपृच्छत ॥२॥ भोः । सर्वज्ञसता यूयं निमित्तं वित्थ वा न वा ? । साधुनोक्तमहं साधु तज्जानामि जिनागमात् ॥३॥ यद्येवं तर्हि मे ब्रूहि प्राणनाथः कदैष्यति ? ।। सोऽवग् ज्ञानावलोकेन श्वः समेष्यति ते धवः ॥४॥ किमभिज्ञानमत्रार्थे वद ज्ञानविदां वरः । मुनिस्तद्गुह्यदेशस्थं मषं स्वप्नादि चादिशत् ।।५।। सञ्जातप्रत्यया साऽनु तज्ज्ञानगुणरञ्जिता । ततस्तस्मै ददौ तुष्टा मोदकादि यथेप्सितम् ॥६॥ युग्मम् अथ द्वितीयेऽह्नि गृहं प्रमार्जनोपलिम्पन-स्वस्तिकमण्डनाद्भुतम् । ससूत्रकण्ठैः कलशैविभूषितं साऽचीकरद् वन्दनमालिकाङ्कितम् ॥७॥ प्रातः पत्युरभिमुखं सा प्रैषीत् स्वपरीजनम् । स समायानथैकाकी स्वगृहाचारमीक्षितुम् ॥८॥ ग्रामेशो ददृशे तेन नतस्तेनाप्यभाणि सः । युष्मकाभिः कथं ज्ञातं मदागमनमद्य भोः ? ॥९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org