________________
उत्तरज्झयणाणि - २
व्याख्या - सह रजसा वर्तेते इति सरजस्कौ एवंविधौ पादो यस्य स सरजस्कपादः । [ स्वपिति ] कोऽर्थः ? पादावप्रमृज्य शेते तथा शय्यां वसतिं न प्रतिलेखयति 'उपलक्षणान्न प्रमार्जयति' । संस्तारके कम्बलादौ 'सुप्त इति शेषः' अनायुक्तः ''कुक्कुडिपायपसारण आयामे पुणो वि आउंटे' इत्यागमार्थानुपयुक्तो यः, स पापश्रमण इत्युच्यते इति ॥१४॥
तपोऽतिक्रमतः पापश्रमणमाह
४७२
दुद्ध-दही विगईओ आहारेइ अभिक्खणं । अरए य तवोकम्मे पावसमणि त्ति वुच्चई ॥१५॥
व्याख्या- दुग्धं च दधि च दधि - दुग्धं 'प्राकृतत्वात् सूत्रे व्यत्ययः' विकृतिहेतुत्वाद् विकृती 'उपलक्षणाद् घृताद्यशेषविकृतिपरिग्रहः ' आहारयत्यभीक्ष्णं वारं वारं तथाविधपुष्टालम्बनं विनाऽपीति भावः । अत एवारतिश्चाप्रीतिमांश्च तपःकर्मणि यः, स पापश्रमण इत्युच्यते ॥१५॥
अपि च
अत्यंतंमि य सूरंमि आहारेइ अभिक्खणं ।
चोइओ पडिचोएड़ पावसमणि त्ति वुच्चई ॥ १६ ॥
व्याख्या-अस्तान्ते अस्तमयपर्यन्ते 'उदयादारभ्येति गम्यते' सूर्ये आहारयत्यभीक्ष्णम् । कोऽर्थः ? प्रातरारभ्य सन्ध्यां यावत् पुनः पुनर्भुङ्क्ते । 'चोइओ पडिचो इति केनचिद् गीतार्थेन चोदितो यथाऽऽयुष्मन् ! किमिति त्वया नित्यमाहारतत्परतयैव स्थीयते ? दुर्लभेयं मनुजत्वादिसामग्री तत एनामवाप्य तपसि किं नोद्यम्यते ? इति प्रेरितः सन् प्रतिचोदयति यथा त्वमेवं जानन्नपि भवान्न विकृष्टतपः कुरुते इति प्रतिवक्ति यः, स पापश्रमण इत्युच्यते ||१६||
तथा
आयरियपरिच्चाई परपासंडसेवए ।
गाणंगणिए दुब्भू पावसमणि त्ति वुच्चई ॥१७॥
व्याख्या - आचार्यपरित्यागी, ते हि तपसि सीदन्तं नोदयन्त्यानीतं चान्नादि बालग्लानादिभ्यो दापयन्त्यतोऽतीवाहारलौल्यात् तत्परित्यजनशीलः । परपाखण्डान् 'मृद्वी शय्या०' इत्यादिवादिनो बौद्धादीनत्यन्ताहारप्रसक्तान् सेवते इति परपाखण्डसेवकः । तथा स्वेच्छया षण्मासाभ्यन्तरमेव गणाद् गणं संक्रामतीति गाणंगणिकः इत्यागमिकी भाषा । १. कुक्कुटीपादप्रसारणं आयम्य पुनरप्याकुञ्चेत् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org