________________
सप्तदशं पापश्रमणीयमध्ययनम्
४७१
तथा
पडिलेहेइ पमत्ते से किंचि हु निसामिया ।
गुरुं परिभावए निच्चं पावसमणि त्ति वुच्चई ॥१०॥ व्याख्या-प्रतिलेखयति प्रमत्तः स 'किंचि हु'त्ति 'हुरप्यर्थः' ततः किञ्चिदपि विकथादिकं निशम्य श्रुत्वा तत्राक्षिप्तचित्ततयेति भावः । गुरून् परिभवतीति गुरुपरिभावको नित्यम् । को भावोऽसम्यक् प्रत्युपेक्षमाणो वितथमाचरन् वा गुरुभिर्नोदितस्तानेवाभिभवति, यथा स्वयमेव प्रत्युपेक्षध्वम्, युष्माभिरेव वयमित्थं शिक्षिता भवतामेवायं दोष इत्यादि यः, स पापश्रमण इत्युच्यते ॥१०॥ किञ्च
बहुमाई पमुहरी थद्धे लुद्धे अणिग्गहे।
असंविभागी अचियत्ते पावसमणि त्ति वुच्चई ॥११॥ व्याख्या-बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रकर्षेण मुखरो वाचालः, स्तब्धो लुब्ध इति प्राग्वत् । अनिग्रहो न निग्रहीतेन्द्रियनोइन्द्रियः । असंविभागी गुरु-ग्लानादिभ्योऽशनादि न संविभज्य दाता । 'अचियत्ते'त्ति गुर्वादिष्वप्यप्रीतिमान् यः, स पापश्रमण इत्युच्यते ॥११॥ अन्यच्च
विवायं च उईरेइ अहम्मे अत्तपन्नहा ।
वुग्गहे कलहे रत्ते पावसमणि त्ति वुच्चई ॥१२॥ व्याख्या-विवादं वाक्कलहं 'चः पूरणे' 'उईरेइ'त्ति उदीरयत्युपशान्तमप्युत्प्रासनादिना वृद्धि नयति । अधर्मोऽसदाचारः 'अत्तपन्नह'त्ति आप्तां सद्बोधरूपतया हितां प्रज्ञां स्वस्यान्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्तीत्याप्तप्रज्ञहा । व्युद्ग्रहे दण्डादिघातजे विरोधे, कलहे वाचिके रक्तः सक्तो यः, स पापश्रमण इत्युच्यते ॥१२॥ अपरं च
अथिरासणे कुक्कुईए जत्थ तत्थ निसीयई ।
आसणंमि अणाउत्ते पावसमणि त्ति वुच्चई ॥१३॥ व्याख्या-अस्थिरासनः कुत्कुचः स्पन्दकः यत्र तत्र संसक्तरजस्कादावपि निषीदत्युपविशत्यासने अनायुक्तोऽनुपयुक्तो यः, स पापश्रमण इत्युच्यते ॥१३॥ तथा
ससरक्खपाउ सुवई सिज्जं न पडिलेहए। संथारए अणाउत्ते पावसमणि त्ति वुच्चई ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org