SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४७० उत्तरज्झयणाणि-२ भक्तादिचिन्तां करोति । तथा अप्रतिपूजकोऽर्हदादिषु यथोचितप्रतिपत्तरहितः स्तब्धो गर्वाध्मात आत्मानमेव बहु मन्यते यः, स पापश्रमण इत्युच्यत इति ।।५।। चारित्रविषयं तदाह सम्मद्दमाणो पाणाणि बीयाणि हरियाणि य । असंजए संजयमन्नमाणे पावसमणि त्ति वुच्चई ॥६॥ व्याख्या-संमदर्दयन प्राणानिति प्राणिनो द्वीन्द्रियादीन, बीजानि शाल्यादीनि, हरितानि दूर्वादीनि 'सर्वैकेन्द्रियोपलक्षणमिदम्' अत एवासंयतोऽपि संयतोऽहमिति मन्यमानोऽनेन संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तं स पापश्रमण इत्युच्यते ॥६॥ तथा संथारं फलगं पीढं निसिज्जं पायकंबलं । अप्पमज्जियमारुहइ पावसमणि त्ति वुच्चई ॥७॥ व्याख्या-संस्तारकं कम्बलादि, फलकं दारुमयं, पीठमासनं, निषिद्या स्वाध्यायभूमिः, पादकम्बलं पादपुञ्छनम्, अप्रमृज्य रजोहरणादिनोपलक्षणादप्रत्युपेक्ष्य चारोहति यः, स पापश्रमण इत्युच्यते ॥७॥ तथा दवदवस्स चरई पमत्ते य अभिक्खणं । उलंघणे य चंडे य पावसमणि त्ति वुच्चई ॥८॥ व्याख्या-द्रुतं द्रुतं शीघ्रं शीघ्रं तथाविधालम्बनं विना त्वरितं चरति गच्छति भिक्षाचर्यादिषु पर्यटति प्रमत्तश्च प्रमादवान् अभीक्ष्णं वारं वारं उल्लङ्घनश्च वत्सबालादीनामध:कर्ता चण्डश्च क्रोधनो यः, स पापश्रमण इत्युच्यते ॥८॥ तथा पडिलेहेइ पमत्ते अवउज्झइ पायकंबलं । पडिलेहाअणाउत्ते पावसमणि त्ति वुच्चई ॥९॥ व्याख्या-प्रतिलेखयति प्रत्युपेक्षते प्रमत्तः सन् । 'अवउज्झइ'त्ति अपोह्यति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनम् । 'उपलक्षणात् सर्वोपधि' न प्रत्युपेक्षत इत्यर्थः । स एवं प्रतिलेखनानायुक्तः प्रत्युपेक्षाऽनुपयुक्तश्च यः, स पापश्रमण इत्युच्यते ॥९॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy