________________
सप्तदशं पापश्रमणीयमध्ययनम्
४६९ स चाचार्योऽप्रतिक्रान्तव्रतातीचारवारकः । आयुःक्षये महायक्षः पुरनिर्धमनेऽजनि ॥१२॥ स्वं ज्ञात्वाऽवधिना पूर्वभवं गौरवदूषितम् । शिष्यान् बोधयितुं स्वीयान् तद्बहिर्गमनाध्वनि ॥१३॥ दीर्घा प्रासारयज्जिह्वां तां दृष्ट्वा मुनयोऽब्रुवन् । कस्त्वं भोश्चेष्टयेदृश्याऽस्मान् बिभीषयसे कथम् ? ॥१४॥ यक्षः प्राख्यद् विषण्णास्यो भो वाचंयमपुङ्गवाः ! । जानीत यूयमात्मीयं गुरुं तं मङ्गनामकम् ॥१५।। नित्यवासात् तथा तीव्रगोरवत्रयसेवनात् । सोऽहमीदग्विधे स्थानेऽभूवमल्पर्धिकः सुरः ॥१६।। ततो यूयं सदावासं गौरवत्रितयं तथा । प्रतिबन्धं परित्यज्य विहरध्वं व्रतादराः ॥१७।। स्वीकृत्य तद्वचस्तेऽन्तेवासिनो भवभीलुकाः । ततो विहृत्य चारित्रं निरीहाः प्रत्यपालयन् ॥१८॥ यथैवं मङ्गाचार्यो नित्यवासादियोगतः ।
पापश्रमणतां भेजे नैषा कार्या तथाऽपरैः ॥१९॥ इति रसादिगृद्धत्वेन पापश्रमणत्वे मङ्गवाचार्यकथा ॥३।। तथा
आयरिय-उवज्झाएहिं सुयं विणयं च गाहिए ।
ते चेव खिसई बाले पावसमणि त्ति वुच्चई ॥४॥ व्याख्या-आचार्योपाध्यायः श्रुतं विनयं च ग्राहितः शिक्षितो 'यैरिति गम्यते' । तानेवाचार्यादीन् खिसति निन्दति बालो विवेकविकलो यः, स पापश्रमण इत्युच्यते इति ॥४॥ ज्ञानविषयं पापश्रमणमुक्त्वा दर्शनविषयं तदाह
आयरिय-उवज्झायाणं सम्मं नो पडितप्पई ।
अप्पडिपूयए थद्धे पावसमणि त्ति वुच्चई ॥५॥ व्याख्या-आचार्योपाध्यायानां सम्यगवैपरीत्येन न परितप्यते न तत्तप्ति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org