________________
४६८
उत्तरज्झयणाणि-२ किञ्च
जे केइ उ पव्वइए निद्दासीले पगामसो ।
भुच्चा पिच्चा सुहं सुवई पावसमणि त्ति वुच्चई ॥३॥ व्याख्या-यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो बहुशो भुक्त्वा दध्योदनादि, पीत्वा दुग्धादि सुखं यथा स्यादेवं सकलानुष्ठाननिरपेक्ष एव स्वपिति यः, स पापश्रमण इत्युच्यते इति । अत्र दृष्टान्तमाह
अत्रास्ति भरते क्षेत्रे मधुरा मथुरा पुरी । विहारा यत् हारन्ति विशुद्धा भूरमोरसि ॥१॥ यस्याः सरसतां वीक्ष्य कालिन्दी यत्र कालिमाम् । दधावियं मम गुणं जग्राह चेत्यसूयया ॥२॥ तत्रैयुरन्यदाऽनेकशिष्याः श्रीमङ्गसूरयः । श्रुताब्धिपारदृश्वानो विहरन्तो भुवतस्तले ॥३॥ महेभ्या भावसद्भक्तियुक्ता श्राद्धा यदृच्छया । साधुभ्यो ददते तत्र भोज्यं पेयं रसाद्भुतम् ।।४।। ततश्च सातद्धि-रसगौरवत्रयगृद्धितः । सुखशीलतया जाताः सूरयो नित्यवासिनः ॥५॥ प्रणीतमशनं स्वैरमश्रन्त्युच्चैः पिबन्ति च । सुरभि स्वादु पानीयं खाद्य-स्वाये अदन्ति ते ॥६॥ सर्वर्तुसुखदायां हि शय्यायां शेरतेऽनिशम् । सातगौरविताः किन्तु जातास्ते शिथिलक्रियाः ॥७॥ एते तपस्विषु श्रेष्ठाः सच्चारित्रिषु सत्तमाः । उपदेष्टषु वागीशाः किमन्ये संयतब्रुवाः ? ॥८॥ इति श्लाघाऽन्यनिन्दाभ्यामनुमोदनया तु ते । हृष्यन्तोऽहंयवो मिथ्यादृशो मिथ्याभिमानगाः ॥९॥ क्षेत्रे कुले च ममताभाजः प्रतिबन्धमास्तिकेषु भृशम् । कुर्वाणास्तस्थुस्ते श्रुतपाठ-तपस्सु निरपेक्षाः ॥१०॥ त्रिभिः कुलकम् विहाय सन्तोषमनन्तसौख्यदं रज्यन्ति तुच्छेष्वपि गौरवेषु । अल्पस्य हेतोबहु हारयन्ति ते दुरन्तता ही ! खलु मोहकर्मणः ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org