________________
सप्तदशं पापश्रमणीयमध्ययनम्
इह प्रागध्ययने ब्रह्मचर्यगुप्तय उक्तास्ताश्च पापस्थानवर्जनादेवेति पापश्रमणस्वरूपाभिधायकं सप्तदशमध्ययनमारभ्यते
जे केइ उ पव्वइए नियंठे धम्मं सुणित्ता विणओववन्ने । सुदुलहं लहिउं बोहिलाभं विहरिज्ज पच्छा य जहासुहं तु ॥१॥
व्याख्या - यः कश्चित् 'तुः पूरणे' प्रव्रजितो निष्क्रान्तो निर्ग्रन्थो धर्मं श्रुतचारित्ररूपं श्रुत्वा विनयेन ज्ञानाद्युपचारात्मकेनोपपन्नो युक्तो विनयोपपन्नः । सुदुर्लभं सुष्ठु दुष्प्रापं 'लहिउं 'ति लब्ध्वा प्राप्य बोधिलाभमर्हदुक्तधर्मप्राप्तिरूपमनेन भावतः प्रव्रजित इत्युक्तं स्यात् । स किमित्याह - विहरेच्चरेत् पश्चात् प्रव्रजनोत्तरकालं 'च पुनरर्थे' । कोऽर्थः ? पूर्वं सिंहवृत्त्या प्रव्रज्य पश्चात् पुनर्यथासुखं यथा यथा निद्रा - विकथाऽऽदिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते । 'तुरेवार्थे' यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थः ॥१॥
स च गुरुणान्येन वाधीष्वेत्युक्तो यद् वक्ति तदाह
सिज्जा दढा पाउरणं मे अत्थि उप्पज्जई भुत्तु तहेव पाउं । जाणामि जं वट्ट आउसु त्ति किं नामु काहामि सुएण भंते ! ॥२॥
व्याख्या - शय्या वसतिर्दृढा शीत- वातातप - जलाद्युपद्रवैरनभिभाव्या । तथा प्रावरणं 'मे' ममास्ति । किञ्चोत्पद्यते भोक्तुं भोजनाय तथा पातुं पानाय 'यथाक्रममशनं पानं चेति शेष:' तथा जानामि यद् वर्तते यदिदानीमस्ति, आयुष्पन्निति प्रेरयितुः सम्बोधनमित्यस्माद् हेतो: किं नाम ? न किञ्चिदित्यर्थः 'किं क्षेपे' 'काहामि'त्ति करिष्यामि श्रुतेनागमेन 'अधीतेनेत्यध्याहारः ' भदन्त पूज्य ! अयमस्याशयो - यथा ये भवन्तोधीयन्ते तेऽपि नातीन्द्रियं वस्तु किञ्चनावबुध्यन्ते तत् किं हृदय - गल - तालुशोषकारिणाऽधीतेन ? इत्येवमध्यवसितो यः, स पापश्रमण इत्युच्यते । इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org