________________
परिशिष्ट-७ टीकागतव्याकरणविमर्शः
९३७ पसत्थे
- प्रशस्तः इत्यन्त वितणिगर्थत्वात् प्रशंसितो गणधराभिरतः स एवाश्रयणीय इति
भावः । अ० ३२।१६ गा० - पच्यमानानि 'लिङ्गव्यत्ययः प्राकृतत्वात्' । अ० ३२।२० गा०
- तान् 'सुब्ब्यत्ययात्' ।-अ० ३२।२७ गा० सप्पे बिलाओ विव निक्खमंतो - सर्प इव बिलान्निष्क्रामन् ‘इवशब्दस्य भिन्नक्रमत्वात्' । अ० ३२।५०
पच्यमाणा
गा०
कारुण्णदीणे - कारुण्यास्पदीभूतो दीन: कारुण्यदीन: 'मध्यमपदलोपी समास:' अत्यन्तदीन
इत्यर्थः । अ० ३२।१०३ गा० निमज्जिउं
- निमज्जितुमित्यन्त वितणिगर्थत्वन्निमज्जयितुम् । अ० ३२।१०५ गा० उज्जमए अ
- उद्यच्छत्येव 'चस्यैवार्थत्वात्' ।-अ० ३२।१०५ गा० आणुपुट्वि
- आनुपूर्व्या 'सुब्ब्यत्ययात्' । अ० ३३।१ गा० चक्खुमचक्खुओहिस्स - 'चक्खु' त्ति मकारोऽलाक्षणिक:' चक्षुश्चाचक्षुश्चावधिश्च 'समाहारे' चक्षुरचक्षुरवधि
तस्य दर्शने ।-अ० ३३।६ गा० सत्तविह.
- सप्तविधं "बिन्दुलोपात्' ।-अ० ३३।११ गा० तित्तीस सागरोवम - त्रयस्त्रिंशत्सागरोपमाणि 'आर्णत्वात् सुपोर्लुक्' ।-अ० ३३।२२ गा० जीमूयनिद्ध
- 'प्राकृतत्वात्' स्निग्धश्चासौ सजलत्वेन जीमूतश्च मेघः स्निग्धजीमूतः । अ० ३४१४
गा०
दुक्कराई
गुत्ते य गुत्तिसु - गुप्तश्च गुप्तिभिः 'तृतीयाऽर्थे सप्तमी' ।-अ० ३४।३१ गा०
- दुष्कराणि 'करोतेः सर्वधात्वर्थत्वाद्' दुःशकानि । अ० ३५।५ गा० पइरिक्के
- देशीभाषया 'एकान्ते' स्त्र्याद्यसङ्कले । अ० ३५।६ गा० "विसप्पे सव्वओ-धारे..." -विसर्प सर्वतोधारं बहुप्राणविनाशनम् । नास्ति ज्योतिःसमं शस्त्रं तस्माज्ज्योतिः न
दीपयेत्" ॥ 'सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात्' । अ० ३५।१२ गा० जिब्भादंतो
- 'प्राकृतत्वात् दान्तस्य परनिपाते' दान्ता वशीकृता जिह्य येन स दानतजिह्वः । अ०
__ ३५।१७ गा० "धम्माधम्मागासा तिन्नि वि..." - "धर्माधर्माकाशानि त्रीण्यप्येतान्यनादिकानि । अपर्यवसितानि चैव सर्वाद्धां
तु व्याख्यातानि" | 'लिङ्गव्यत्ययः प्राकृतत्वात्' ।-अ० ३६८ गा०
- 'तमिति सूत्रत्वात्' तान् । अ० ३६।४८ गा० सनप्पया
- 'सूत्रत्वात्' सह नखैर्वर्तन्त इति सनखास्तथाविधानि पदानि येषां ते सनखपदाः
सिंहादयः । अ० ३६।१८० गा० अजहन्नमणुक्कोसं
अजघन्या चासावनत्कृष्टा च मोऽलाक्षणिकः ।-अ०३६।२४४ गा० रूविणो चेवरूवी य - रूपिणश्चैव 'रूवी य त्ति अकारप्रश्लेषादरूपिणश्च ।-अ० ३६।२४८ गा० परित्तसंसारी
- 'परित्तः' समस्तदेवादिभवाल्पतापादनेन परिमितः स चासौ संसारश्च परित्तसंसार: स विद्यते येषां ते परित्तसंसारिणः कतिपयभवाभ्यन्तरमुक्तिभाज इत्यर्थः 'प्राकृतत्वाद्
वचनव्यत्ययः' ।-अ० ३६।२६० गा० बालमरणाणि - 'सुब्ब्यत्ययात्' बालमरणैः ।-अ० ३६।२६१ गा०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org