________________
परिशिष्टम्
[८] टीकागतन्यायादिविमर्शः
सिंहावलोकितन्याय - स पापश्रमण इत्युच्यते । इतीहापि सिंहावलोकितन्यायेन सम्बध्यते ।-अ०
१७४२ गा० भीमो भीमसेनन्याय
परीसहे य-परीषहानिति 'भीमो भीमसेनेति न्यायेन' परीषहसहनानि च ।-अ०
२११११ गा० डमरुकमणिन्याय
ओहोवहोवग्गहियं–'मध्यवर्युपधिशब्दो डमरुकमणिन्यायेनोभयत्र सम्बध्यते'
तत ओघोपधिमौपग्रहिकोपधि च ।-अ० २४.१३ गा० परिस्थूरन्याय
एवं वर्ण-गन्ध-रस-स्पर्श-संस्थानानां सकलभङ्गकसङ्कलनातो जातानि द्वयशीत्यधिकानि चत्वारि शतानि-अङ्कतोऽपि ४८२ । परिस्थूरन्यायेनैतदुक्तमन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गाः सम्भवन्ति ।-अ०
३६।४६ गा० पञ्चावयवरूप: हेतुः - अनुचितमिदं भवतोऽभिनिष्क्रमणम्, आक्रन्दादिदारुणशब्दहेतुत्वात्, यद्
यदाक्रन्दादिदारुणशब्दहेतु, तद् तद् धर्मार्थिनोऽनुचितं यथा प्राणिव्यपरोपणादि,
तथा चेदम्, तस्मादनुचितमेवेति पञ्चावयवो हेतुः । कारणं चान्यथाऽनुपपत्तिमात्रम् - आक्रन्दादिशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्नमिति
कारणमनयोः पृथगुपादानं 'प्रतिपाद्यभेदतः साधनवैचित्र्यसूचनार्थम्' । - अ०
९८ गा० 'तात्स्थ्यात् तद्व्यपदेशसम्भवात्' - मरुम्मि-मरौ-मरुवालुकासदृशे । -अ० १९।५० गा० व्यवच्छेदफलत्वाद् वाक्यस्य -आत्मैव नान्यः कश्चित् । -अ० २०।३७ गा० 'कारणकारणस्यात्र कारणत्वाभिधानम्' - मोक्खमग्गगइं-मोक्षस्य कारणं मार्गस्तस्यापि मार्गस्य गतिकारण
त्वमेतद्विशेषणोक्तम् 'व्यवहारतः' । अ० २८१ गा० पदैकदेशे पदसमुदायोपचारात् - कन्दर्पति कन्दर्पभावना । एवमाभियोग्यभावना । किल्बिषिकभावना ।
मोहभावना । असुरत्वभावना च ।-अ० ३६।२५६ गा० 'कारणे कार्यातिदेशात्' - एयाओ दुग्गईओ-एताः सर्वा अपि भावना दुर्गतिहेतुत्वेन दुर्गतय: कारणे
कार्यातिदेशात् ।-अ० ३६।२५६ गा० 'विचित्रत्वात् सूत्रकृतेः' - मोहीप्रस्तावेऽपि प्रागासुरीभावनामाह ।-अ० ३६।२६६ गा० अव०
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org