________________
षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८६१ तद्यथा-'हेट्ठिम'त्ति अधस्तना उपरितनषट्कापेक्षया प्रथमास्त्रयस्तेष्वपि हेट्ठिम' त्ति अधस्तना अधस्तनाधस्तनाः प्रथमत्रिकाधोतिनः । ततः प्रथमत्रिके एवाधस्तनमध्यमाः। पुनस्तत्रैवाधस्तनोपरितनाः । एवं द्वितीयत्रिके मध्यवर्तिनि मध्यमाधस्तनाः ।। मध्यममध्यमाः । मध्यमोपरितनाः । तथा तृतीयोपरितनत्रिके उपरितनाधस्तनाः । उपरितनमध्यमाः ॥ उपरितनपरितनाः । 'इतिर्भेदसमाप्तौ' तत एतावद्भेदा एव ग्रैवेयकाः सुराः । अभ्युदयविघ्नहेतून् विजयन्ते इति विजयास्तथा वैजयन्ता एवं जयन्ताः । अपरैरन्यैरभ्युदयविघ्नहेतुभिरजिता इत्यपराजिताः ॥ सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः । ते हि जितप्रायकर्माणः भविष्यद्भद्रा एव तत्रोत्पद्यन्ते । इतीत्येवम्प्रकारा वैमानिका अनेकविधा एवमादय इति ॥ क्षेत्र-कालाभिधायकं गाथाद्वयं सादिसपर्यवसितत्वभावनया ज्ञेयमिति गाथात्रयोदशकार्थः ॥२०६-२१८॥ देवानामायुःस्थिति-कायस्थिती आह
साहियं सागरं इक्कं उक्कोसेणं ठिई भवे । भोमिज्जाणं जहन्नेणं दसवाससहस्सिया ॥२१९॥ पलिओवममेगं तु एगं उक्कोसेणं ठिई भवे । वंतराणं जहन्नेणं दसवाससहस्सिया ॥२२०॥ पलिओवमं तु एगं वासलक्खेण साहियं । पलिओवमट्ठभागो जोइसेसु जहन्निया ॥२२१॥ दो चेव सागराइं उक्कोसेणं वियाहिया । सोहम्मंमि जहन्नेणं एगं च पलिओवमं ॥२२२॥ सागरा साहिया दुन्नि उक्कोसेणं ठिई भवे । ईसाणंमि जहन्नेणं साहियं पलिओवमं ॥२२३॥ सागराणि य सत्तेव उक्कोसेणं ठिई भवे । सणंकुमारे जहन्नेणं दुन्नि उ सागरोवमा ॥२२४॥ साहिया सागरा सत्त उक्कोसेणं ठिई भवे । माहिदमि जहन्नेणं साहिया दोन्नि सागरा ॥२२५॥ दस चेव सागराइं उक्कोसेणं ठिई भवे । बंभलोए जहन्नेणं सत्त उ सागरोवमा ॥२२६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org