________________
८६०
उत्तरज्झयणाणि-२ कप्पाईया य जे देवा दुविहा ते वियाहिया । गेविज्जाणुत्तरा चेव गेविज्जा नव वियाहिया ॥२१२॥ हिट्ठिमा हिट्ठिमा चेव हिट्ठिमा मज्झिमा तहा । हिट्ठिमा उवरिमा चेव मज्झिमा हिट्ठिमा तहा ॥२१३॥ मज्झिमा मज्झिमा चेव मज्झिमा उवरिमा तहा । उवरिमा हिट्ठिमा चेव उवरिमा मज्झिमा तहा ॥२१४॥ उवरिमा उवरिमा चेव इइ गेविज्जगा सुरा । विजया वेजयंता य जयंता अपराजिया ॥२१५॥ सव्वट्ठसिद्धगा चेव पंचहाणुत्तरा सुरा । इइ वेमाणिया एए णेगहा एवमायओ ॥२१६॥ लोगस्स एगदेसंमि ते सव्वे परिकित्तिया । इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥२१७॥ संतई पप्प णाईया अपज्जवसिया वि य ।
ठिई पडुच्च साईया सपज्जवसिया वि य ॥२१८॥ आसां व्याख्या-प्रायः प्रतता एव । नवरं असुरा इत्यसुरकुमाराः । एवं नागकुमारादिष्वपि कुमारशब्दः सर्वत्र योज्यः । सर्वेऽपि ह्यमी कुमाराकारधारिणः कुमारवन्मधुरललितगतयः शृङ्गाराभिजातरूपविक्रिया अद्भुतवेषाभरण-प्रहरण-यान-वाहना उल्बणरागाः क्रीडापराश्चेत्यसुरकुमारा इत्युच्यन्ते ॥ तारागणाः प्रकीर्णतारकसमूहाः । दिशासु विशेषेण मेरुप्रादक्षिण्यनित्यचारितालक्षणेन चरन्ति परिभ्रमन्तीत्येवंशीला दिशाविचारिणः । तद्विमानानि ह्येकविंशैरेकादशाधिकैर्योजनशतैर्मरोश्चतसृष्वपि दिक्ष्वबाधया नित्यमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः । ज्योतीष्युक्तन्यायतो विमानान्यालया आश्रया येषां ते ज्योतिरालयाः ॥ कल्पन्ते इन्द्रसामानिकादि-दशप्रकारत्वेन विभज्यन्ते देवा एतेष्विति कल्पा देवलोकास्तानुपगच्छन्त्युत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगाः । कल्पानुक्तरूपानतीतास्तदुपरिवर्तिस्थानोत्पत्तितयाऽतिक्रान्ताः कल्पातीताः ॥ सुधर्मा नामेन्द्रस्य सभाऽस्मिन्नस्तीति सौधर्मः कल्पः, स एषां स्थितिविषयोऽस्तीति सौधर्मिणः । एवमीशानादिष्वपि व्युत्पत्तिः कार्या ॥ ग्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशस्तां निविष्टतयाऽतिभ्राजिष्णुतयाभरणभूता ग्रैवेया देवावासास्तन्नवासिनो देवा अपि ग्रैवेया नवविधाः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org