________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८५९ व्याख्या-देवाश्चतुर्विधा उक्तास्तान् मे कीर्त्तयतः शृणु । भौमेयका भवनवासिनो रत्नप्रभापृथिव्या अशीतिसहस्रोत्तरयोजनलक्षबाहल्याया उपर्येकं योजनसहस्रमवगाह्याधश्चैकं योजनसहस्रं मुक्त्वा मध्येऽष्टसप्तत्युत्तरयोजनलक्षे भवनवासिदेवानां भवनसद्भावात् । 'वाणमंतर'त्ति 'आर्षत्वाद्' विविधा व्यन्तराण्युत्कर्षापकर्षात्मकविशेषरूपाणि निवासभूतानि गिरिकन्दर-विवरादीनि येषां ते व्यन्तराः । द्योतयन्ते इति द्योतींषि विमानानि तन्निवासिनो देवास्तु ज्योतिष्काः । विशेषेण मानयन्त्युपभुञ्जन्ति सुकृतिन एतानीति विमानानि तेषु भवा वैमानिकाः । तथेति समुच्चये ॥२०४॥ एषामेवोत्तरभेदनाह
दसहा उ भवणवासी अट्टहा वणचारिणो ।
पंचविहा जोइसिया दुविहा वेमाणिया तहा ॥२०५॥ व्याख्या-तुरेवार्थे' दशधैव भवनवासिनः । अष्टधाऽष्टप्रकारा वनेषु क्रीडैकरसतया चरितुं शीलमेषां ते वनचारिणो व्यन्तराः । पञ्चविधा ज्योतिष्काः । द्विविधा वैमानिकास्तथेति ॥२०५।। एतेषामेव नामान्याह
असुरा नाग-सुवन्ना विज्जू अग्गी य आहिया । दीवोदही-दिसा-वाया थणिया भवणवासिणो ॥२०६॥ पिसाय-भूया जक्खा य रक्खसा किन्नरा य किंपुरिसा । महोरगा य गंधव्वा अट्टविहा वाणमंतरा ॥२०७॥ चंदा सूरा य नक्खत्ता गहा तारागणा तहा । दिसाविचारिणो चेव पंचहा जोइसालया ॥२०८॥ वेमाणिया य जे देवा दुविहा ते वियाहिया । कप्पोवगा य बोधव्वा कप्पाईया तहेव य ॥२०९॥ कप्पोवगा य बारसहा सोहम्मीसाणगा तहा । सणंकुमार-माहिंदा बंभलोगा य लंतगा ॥२१०॥ महासुक्का सहस्सारा आणया पाणया तहा । आरणा अच्चुया चेव इइ कप्पोवगा सुरा ॥२११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org