________________
८५८
उत्तरज्झयणाणि - २
कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यादादौ भेदाभिधानम् । भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिविपरिणामेन सम्बन्धनीयम् । अन्तरद्वीपानां तत्सङ्ख्यत्वात् तद्भवत्वात् तेषाम् । ते चैवम् - क्षुल्लहिमवतः पूर्वस्यामपरस्यां च दिशि जम्बूद्वीपवेदिकान्तात्परतः प्रत्येकं द्वे द्वे दंष्ट्रे विदिगभिमुखे विनिर्गते । तद् यथा - पूर्वस्यामेकेशान्यभिमुखी दंष्ट्रा, द्वितीयाऽऽग्नेय्यभिमुखी, पश्चिमस्यामेका नैर्ऋत्यभिमुखी, द्वितीया वायव्यभिमुखी । एवं चतसृषु विदिगभिमुखिषु दंष्ट्रासु प्रत्येकं त्रीणि त्रीणि योजनशतानि लवणसमुद्रमतिक्रम्य विदिक्ष्वेकैकभावेन चत्वारोऽन्तरद्वीपाः प्रत्येकं योजनशतत्रयविस्ताराः सन्ति । ततस्तत्परतस्तास्वेव चतसृषु दंष्ट्रासु प्रत्येककमेकैकयोजनशतवृद्ध्या वर्धिताः षट्षडन्तरद्वीपाश्चतुर्भिर्गुणिताश्चतुर्विंशतिद्वीपाः स्युस्ततश्चाद्यान्तरद्वीपचतुष्क सहिता अष्टाविंशतिरन्तरद्वीपाः सन्ति । एवं शिखरिणि पर्वतेऽप्यष्टाविंशतिरिति । सर्वसाम्याच्चैषां भेदेनाविवक्षित्वान्न सूत्रे ऽष्टाविंशतिसङ्ख्याविरोध इति भावः । तेषु च युगल धार्मिकाः प्रतिवसन्ति । तच्छरीरमानाद्येवम्
“अंतरदीवेसु नरा धणुसयअट्ठूसिया सया मुइया । पालंति मिहुणभावं पल्लस्स असंखभागाऊ ॥१॥ चट्ठी पिट्टकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स उ उणसीतिदिणाणुपालणया" ॥२॥
नामायाम-परिध्यादि क्षेत्रसमासबृहट्टीकातोऽवसेयम् ॥ सम्मूच्छिमानामेष एव भेदो यश्चाकर्मभूमादिगर्भजानामुक्तो भवत्याख्यातः । ते हि तेषामेव वान्त - पित्तादिषु सम्भवन्त्यङ्गुलासङ्ख्येयभागमात्रावगाहना इति ॥ पल्योपमानि त्रीण्यायुः स्थितिरिति युगलधार्मिकापेक्षया || कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाधिकानीति । एतच्च तिर्यक्-कायस्थित्यभिहिताभिप्रायेण ज्ञेयम् ॥ अन्तरस्य चानन्तकालत्वं साधारणवनस्पतिकायस्थित्यपेक्षयेति सूत्रनवकार्थः ॥ १९५ - २०३॥
देवानाह
देवा चउव्विहा वुत्ता ते मे कित्तयओ सुण । भोमिज्ज- वाणमंतर - जोइस - वेमाणिया तहा ॥२०४॥
१. अन्तरद्वीपेषु नरा धनुःशताष्टोच्छ्रिताः सदा मुदिताः । पालयन्ति मिथुनभावं पल्यस्यासङ्ख्यभागायुषः ॥ १ ॥ चतुःषष्टिः पृष्ठकरण्डकानां मनुजानां तेषामाहारः । भक्तेन चतुर्थेन तूनाशीतिदिनानुपालनता ||२||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org