SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ८४८ संतई पप्प णाईया अपज्जवसिया वि य । ठिनं पडुच्च साईया सपज्जवसिया वि य ॥१२१॥ तिन्नेव सहस्साई वासाणुकोसिया भवे । आउठिई वाऊणं अंतोमुहुत्तं जहन्निया ॥ १२२॥ असंखकालमुक्कोसा अंतोमुहुत्तं जहन्निया । कायठिई वाऊणं तं कार्यं तु अमुंचओ ॥ १२३ ॥ अनंतकालमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए वाउजीवाण अंतरं ॥ १२४ ॥ एएसिं वन्नओ चेव गंधओ रस- फासओ । संठाणादेसओ वा वि विहाणाई सहस्ससो ॥ १२५ ॥ उत्तरज्झयणाणि - २ व्याख्या–एता अपि प्राग्वत् । पञ्चधेत्युपलक्षणमस्यानेकधेत्यभिधानात् । वातशब्दस्य प्रत्येकमभिसम्बन्धादुत्कलिकावाता ये स्थित्वा स्थित्वा पुनर्वान्ति । मण्डलिकावाता वातोलीरूपाः । घनवाता रत्नप्रभाद्यधोवर्त्तिनां घनोदधीनां विमानानां चाधारा हिमपटलकल्पा वायवः । गुञ्जावाता ये गुञ्जन्तो वान्ति । शुद्धवाता उत्कलिकादिविकला मन्दानिलादयः ॥ संवर्त्तकवाताश्च ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति । इति गाथानवकार्थः ॥ ११७-१२५।। इत्थं तेजो- वायुत्रसानुक्त्वोदारत्रसानाह— ओराला तसा जे उ चउहा ते पकित्तिया । बेइंदिय तेइंदिय चउरो पंचिंदिया चेव ॥ १२६॥ व्याख्या–उदारास्त्रसा ये पुनश्चतुर्धा चतुष्प्रकारास्ते प्रकीर्त्तिताः । चतुर्धात्वमेवाह-द्वे इन्द्रिये स्पर्शन - रसनाख्ये येषां ते द्वीन्द्रियाः । एतच्च निर्वृत्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योच्यते । भावेन्द्रियापेक्षयैकेन्द्रियाणामपीन्द्रियपञ्चकस्यापि सम्भवात् । एवं शेषेष्वपीन्द्रियेषु भावनीयम् । तथैव ते एव द्वे इन्द्रिये येषां तृतीयं घ्राणं ते त्रीन्द्रियाः । तान्येव त्रीणि चतुर्थं चक्षुश्च येषां ते चतुरिन्द्रियाः । येषां चत्वारि तानि पञ्चमं श्रोत्रमिति पञ्चेन्द्रियाः ॥ १२६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy