________________
८४६
उत्तरज्झयणाणि-२
उस्सप्परिणीओ । खेत्तओ अड्डाइज्जा पुग्गलपरियट्टा । बायरनिगोदपुच्छा । जहण्णेणं तं चेव, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ । सुहुमनिगोयपुच्छा । जहण्णेणं तं चेव, उक्कोसेणं असंखेज्जं कालं ति" । असङ्ख्यकालमुत्कृष्टं पनकजीवानामन्तरम् तत उद्वृत्य हि पृथिव्यादिषूत्पत्तव्यम् । तेषु चासङ्ख्येयकालैव कायस्थितिरिहापि तथाऽभिधानादिति सूत्रचतुर्दशकार्थः ॥९२ - १०५ ॥
प्रकृतमुपसंहरन्नुत्तरग्रन्थं च सम्बन्धयन्नाह—
इच्चे थावरा तिविहा समासेण वियाहिया ।
इत्तो उ तसे तिविहे वृच्छामि अणुपुव्वसो ॥१०६॥
व्याख्या - इत्येवम्प्रकारा एते पृथिव्यादयः स्थानशीलाः स्थावरास्त्रिविधाः समासेन सङ्क्षेपेण व्याख्याताः, विस्तरतो ह्यमीषां बहुतरभेदत्वात् । त्रयाणामप्यमीषां स्वयमेवस्थितिस्वभावात्वात् । इतः स्थावरविभक्तेरनन्तरं 'तुः पुनः ' त्रसांस्त्रिविधान् वक्ष्यामि 'अणुपुव्वसो'त्ति आनुपूर्व्येति ॥ १०६॥
ताने वाह
तेऊ वाऊ य बोधव्वा उराला य तसा तहा । इच्चे तसा तिविहा तेसिं भेए सुणेह मे ॥ १०७॥
व्याख्या
- तेजोयोगात् तेजांस्यग्नयस्तद्वर्त्तिनो जीवा अपि तथोक्ताः । एवं वायवश्च बोद्धव्याः । 'उरालि'त्ति उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादयश्च सास्तथा । इत्येते त्रस्यन्ति देशाद् देशान्तरं सङ्क्रामन्तीति त्रसास्त्रिविधाः । तेजो- वाय्यवोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति । ततस्तेजो- वाय्वोर्गतितः, उदाराणां च लब्धितोऽपि त्रसत्वमिति । तेषां तेजःप्रभृतीनां भेदान् शृणुत मे कथयत इति ॥ १०७॥
तत्र तेजोजीवानाह—
दुविहा तेउजीवा उ सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥ १०८॥ बायरा जे उ पज्जत्ता णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी अच्चि - जाला तहेव य ॥१०९॥ उक्का विज्जू य बोधव्वा णेगहा एवमायओ । एगविहमणाणत्ता सुहुमा तत्थ वियाहिया ॥११०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org