________________
षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् शरीमेषामिति प्रत्येकशरीरास्तेषां हि यदेकस्य शरीरं तदन्यस्य न भवतीति । प्रत्येकशरीराश्च 'प्रक्रमाज्जीवाः, ये इति शेषः' अनेकधा ते प्रकीर्तिताः । वृक्षाश्चुतादयः । गुच्छा वृन्ताकीमुख्याः । गुल्माश्च नवमालिकादयः । लताश्चम्पकाद्याः । वल्ल्यः कूष्माण्ड्याद्याः । तृणानि कुशादीनि ॥ लतावलयानि नालिकेरी-कदल्यादीनि, इह तेषां शाखान्तराभावेन लतारूपत्वम्, त्वचो वलयाकारत्वेन च वलयलता । पर्वजा इक्ष्वादयः । कुहुणा भूमिस्फोटादयः । जलरुहाः पद्मादयः । औषधयः शाल्यादयः । तथा हरितानि तन्दुलीयकादीनि तान्येव कायाः शरीराणि येषामिति हरितकायाश्च बोद्धव्याः प्रत्येका इत्याख्याताः ॥ साधारणशरीरास्तु आलुक-मूलकादयो हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धा एवमादयोऽनेकधा ॥ साधारणलक्षणमिदम्
“गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं ।
जं पि य पणट्ठसंधिं अणंतजीवं वियाणाहि" ॥१॥ वनस्पतिनां प्रत्येकशरीरापेक्षयोत्कृष्टं दशवर्षसहस्रमानमायुरुक्तम् । साधारणानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तायुष्कत्वात् । उक्तं च–'निगोयस्स णं भंते ! केवइयं कालं आउठिइ पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहत्तं" । 'पणगााणं आउ'त्ति पाठे पनका उल्लिजीवा इह तदुपलक्षिताः सामान्येन वनस्पतयो गृह्यन्ते ॥ अनन्तकालमुत्कृष्टाऽन्तर्मुहूर्तं जघन्या कायस्थितिः पनकानाम् । इहापि सामान्येन वनस्पतिजीवान् निगोदान् वाऽपेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते । विशेषापेक्षया हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्येयकालैव स्थितिः । उक्तं च-"पैत्तेयसरीरबायरवणप्फत्तिकाइयाणं भंते ! केवइयं कालं कायट्ठिई पण्णत्ता ? । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ । निओदेणं भंते ! निओदे त्ति कालतो केचिरं होंति ? । जहण्णेणं तं चेव, उक्कोसेणं अणंतं कालं अणंताओ
१. गूढशिराकं पत्रं सक्षीरं यच्च भवति निःक्षीरम् ।
यदपि च प्रणष्टसन्धि अनन्तजीवं विजानीहि ॥१॥ २. निगोदस्य नु भदन्त ! कियन्तं कालमायुःस्थितिः प्रज्ञप्ता ? ।
गौतम ! जघन्योन्यान्तर्मुहूर्तमुत्कृष्टेनाप्यन्तर्मुहूर्तम् ।
३. प्रत्येकशरीरबादरवनस्तिकायिकानां भदन्त ! कियन्तं कालं कायस्थितिः प्रज्ञप्ता ? गौतम ! जघन्येनान्तर्मुहूर्त्तम्, उत्कर्षेण सप्ततिः सागरोपमकोटीकोट्यः । निगोदो नु भदन्त ! निगोद इति कालत: कियच्चिरं भवति ? । जघन्येन तच्चैव, उत्कर्षेणानन्तं कालमनन्ता उत्सर्पिण्यः । क्षेत्रतोऽर्धतृतीयाः पुद्गलपरावर्ताः । बादरनिगोदपृच्छा । जघन्येन तच्चैव, उत्कृष्टेन सप्ततिः सागरोपमकोटीकोट्यः । सूक्ष्मनिगोदपृच्छा । जघन्येन तच्चैव, उत्कृष्टेनासङ्ख्येयं कालमिति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org