________________
८४२
उत्तरज्झयणाणि-२ व्याख्या-सन्ततिं प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः सर्वदा सद्भावात् । स्थितिं भवस्थिति-कायस्थितिरूपां प्रतीत्याश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् ॥७९॥ तथैवाह
बावीस सहस्साइं वासाणुक्कोसिया भवे । आउठिई पुढवीणं अंतोमुहुत्तं जहन्निया ॥८०॥ असंखकालमुक्कोसं अंतोमुहत्तं जहन्निया ।
कायठिई पुढवीणं तं कायं तु अमुंचओ ॥८१॥ अनयोर्व्याख्या-द्वाविंशतिः सहस्त्राणि वर्षाणामुत्कृष्टा भवेदायुःस्थितिः पृथिवीनामिति पृथिवीजीवानामन्तमुहूर्तं जघन्यिका ॥ असङ्ख्यकालमुत्कृष्टा । अन्तमुहूर्तं जघन्यिका। काये पृथिवीकाये स्थितिस्ततोऽनुद्वर्तनेनावस्थानं कायस्थितिः पृथिवीनां तमिति पृथिवीरूपं कायं 'तुरेवार्थे' ततो 'अमुंचउ'त्ति अमुञ्चतामेवात्यजतामिति गाथाद्वयार्थः इत्थं द्विविधाया अपि स्थिते यत्यदर्शनेन सादि-सपर्यवसितत्वमेषाम् ॥८०-८१॥ कालस्य प्रक्रान्तत्वादन्तरकालमाह
अणंतकालमुक्कोसं अंतोमुहत्तं जहन्नयं ।
विजदंमि सए काए पुढवीजीवाण अंतरं ॥८२॥ व्याख्या-अनन्तकालमुत्कृष्टमन्तर्मुहूर्तं जघन्यकम् । 'विजढंमि'त्ति त्यक्ते स्वकीये काये पृथिवीजीवानामन्तरम् । किमुक्तं भवति ? यत् पृथिवीकायानामुद्वर्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति ॥८२।। एतानेव भावत आह
एएसिं वण्णओ चेव गंधओ रस-फासओ ।
संठाणादेसओ वा वि विहाणाई सहस्ससो ॥८३॥ व्याख्या-सुगमम् । नवरं विधानानि भेदाः 'सहस्त्र इति चोपलक्षणम्' वर्णादितारतम्यस्य बहुभेदत्वेनासङ्ख्यभेदत्वात् । वर्णादीनां भावरूपत्वात् ॥८३॥ अथाप्कायमाह
दुविहा आउजीवा उ सुहमा बायरा तहा । पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥८४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org