________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
__ आसां व्याख्या-पृथिवी शुद्धा या कर्करादिरूपा न भवति । शर्करा लघूपलशकलरूपा । वालुका प्रतीता । उपलो गण्डशैलादिः । शिला च दृषत् । लवणं समुद्रलवणादिः । ऊषश्च क्षारमृत्तिका । अयो लोहं त्रपुक-ताम्र-सीसक-रूप्यसुवर्णानि प्रतीतानि । वज्रश्च हीरकः ॥ हरितालो हिङ्गलको मनःशिलेति च प्रतीता एव। सासकश्च धातुविशेषः । अञ्जनं सौवीरकम् । प्रवालं विद्रुमः । अभ्रपटलं प्रसिद्धम् । अभ्रवालुकाऽभ्रपटलमिश्रा वालुका बादरा काये इति बादरपृथिवीकाये 'अमी भेदा इति शेषः' । 'मणिविहाण'त्ति 'चस्य गम्यत्वाद्' मणिविधानानि च मणिभेदाः ॥ तान्येवाह-गोमेदकश्च रुचकोऽङ्कः स्फटिकश्च लोहिताक्षश्च मरकतो मसारगलश्च भुजमोचक इन्द्रनीलश्च ।। चन्दनो गैरिको हंसगर्भः पुलकः सौगन्धिकश्च बोद्धव्यः । चन्द्रप्रभो वैडूर्यको जलकान्तः सूर्यकान्तश्च । इह च पृथिव्यादयश्चतुर्दश, हरितालादयोऽष्टौ, गोमेदकादयश्च क्वचित् कथञ्चिदन्तर्भावाच्चतुर्दशेत्यमी मीलिताः षट्त्रिंशद् भवन्तीति गाथाचतुष्टयार्थः ॥७३-७६॥ बादरपृथिवीकायोपसंहारपूर्वकं सूक्ष्मपृथिवीकायानाह
एए खरपुढवीए भेया छत्तीसमाहिया ।
एगविहमनाणत्ता सुहुमा तत्थ वियाहिया ॥७७॥ व्याख्या-एते खरपृथिव्यास्तदविभागाच्च तत्स्थजीवानां भेदाः षट्त्रिंशदाख्याताः । 'एगविहमनाणत्त' त्ति एकविधा यतो न विद्यते नानात्वं भेदो येषां तेऽनानात्वाः । सूक्ष्मास्तत्रेति तेषु सूक्ष्म-बादरपृथिवीजीवेषु मध्ये व्याख्याताः ॥७७॥ एतानेव क्षेत्रत आह
सुहुमा य सव्वलोगंमि लोगदेसे य बायरा ।
इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥७८॥ व्याख्या-सूक्ष्माः सर्वलोके चतुर्दशरज्ज्वात्मके तत्र सर्वत्र सर्वदा तेषां भावात् । लोकस्य देशो विभागो लोकदेशस्तस्मिन् 'चः पुनरर्थे' बादरास्तेषां क्वचित् कदाचिदसत्त्वेन सर्वव्याप्त्यसम्भवात् । अथैतान् गाथाऽर्धेन कालत आह–'इत्तो'त्ति इतः क्षेत्रप्ररूपणानन्तरं कालविभागं तु तेषां वक्ष्ये चतुर्विधम् ।।७८॥ यथाप्रतिज्ञातमाह
संतई पप्प णाईया अपज्जवसिया वि य । ठिइं पडुच्च साईया सपज्जवसिया वि य ॥७९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org