________________
८४०
उत्तरज्झयणाणि-२ व्याख्या-द्विविधा द्विभेदाः पृथिवीजीवाः 'तः प्राग्वत्' सूक्ष्मा बादराश्च । तथा पर्याप्ता आहार-शरीरेन्द्रियोच्छ्वास-वाक्-मनःपर्याप्तिषु चतसृभिस्ताभिः पर्याप्तिमन्तस्तद्विपरीताश्चापर्याप्ताः । एवमेते सूक्ष्मा बादराश्च पर्याप्तापर्याप्तभेदेन द्विधा पुनः प्रत्येकमिति ॥७०॥ पुनरेषामुत्तरभेदानाह
बायरा जे उ पज्जत्ता दुविहा ते वियाहिया ।
सण्हा खरा य बोधव्वा सण्हा सत्तविहा तहिं ॥७१॥ व्याख्या-बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः । कथम् ? इत्याहश्लक्ष्णाश्चूर्णितलोष्टकल्पा मृदुपृथ्वीतदात्मकजीवा अप्युपचारात् श्लक्ष्णाः । एव मुत्तरत्रापि । खराः कठिनाः 'चः समुच्चये' बोद्धव्याः । श्लक्ष्णाः सप्तविधास्तस्मिन् भेदद्वये ॥७१॥ सप्तविधत्वमेवाह
किण्हा नीला य रुहिरा य हालिद्दा सुकिला तहा ।
पंडु पणगमट्टिया खरा छत्तीसईविहा ॥७२॥ व्याख्या-कृष्णाः, नीलाच, रुधिराश्चेति लोहिता रक्ता इत्यर्थः, हारिद्राः पीताः, शुक्लाः 'तथेति समुच्चये' । 'पंडु'त्ति पाण्डवः-आपाण्डुरा ईषच्छुभ्रा इत्यर्थः । इत्थं वर्णभेदेन षड्विधत्वमुक्तम् । इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूप: स एव मृत्तिका । पनकस्य चाकाशे वर्तमानस्य लोके पृथिवीत्वेनारूढत्वाद् भेदेनोपादानम् । खरपृथिवीजीवाः षट्त्रिंशद्विधाः ।।७२।। तानेवाह
पुढवी य सक्करा वालुया य उवले सिला य लोणूसे । अय-तउय-तंब-सीसग-रुप्प-सुवन्ने य वयरे य ॥७३॥ हरियाले हिंगुलए मणोसिला सासगंजण-पवाले। अब्भपडलब्भवालु य बायरकाये मणिविहाणा ॥७४॥ गोमिज्जए य रुयगे अंके फलिहे य लोहियक्खे य । मरगय-मसारगल्ले भुयमोयग-इंदनीले य ॥७५॥ चंदण-गेरुय-हंसगब्भ-पुलए सोगंधिए य बोधव्वे । चंदप्पभ-वेरुलिए जलकंते सूरकंते य ॥७६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org