SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ८३९ षत्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् पुनस्तेषां क्षेत्रं स्वरूपं चाह लोएगदेसे ते सव्वे नाण-दसणसंनिया । संसारपारनित्थिन्ना सिद्धि वरगई गया ॥६७॥ व्याख्या-लोकैकदेशे ते सिद्धा इत्यनेन "मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत् तापवर्जिताः" इति सर्वगतत्वमतमपास्तम् । तथात्वे सर्वत्र सर्वदा वेदनादिप्रसङ्गात् । ज्ञानदर्शनसंज्ञिता इत्यनेन मा भूत् केषाञ्चित् ज्ञानसंज्ञा, केषाञ्चिद् दर्शनसंज्ञैव केवला किन्तूभे अपि सर्वेषामपीति । संसारपारं निस्तीर्णाः पुनरागमनाभावेनातिक्रान्ता इत्यनेन "ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः" ॥१॥ इति तेषां मतमनिष्ठितार्थत्वादिदोषप्रसङ्गेन निरस्तम् । सिद्धि वरगतिं गता इत्येतेन क्षीणकर्मणोऽपि लोकाग्रगमनस्वभावेनोत्पत्तिसमये सक्रियत्वमप्यस्तीति ख्याप्यते । इयं च गाथा प्रायः क्वापि न दृश्यते । यत्र प्रतौ भवति, तत्रैवं व्याख्यायते ॥६७|| सिद्धानभिधाय संसारिणः प्राह संसारत्था उ जे जीवा दुविहा ते वियाहिया । तसा य थावरा चेव थावरा तिविहा तहिं ॥१८॥ व्याख्या संसारस्था इति प्राग्वत् 'तुशब्दः सिद्धेभ्यः सङ्ख्याविशेषद्योतकः' ये जीवास्ते द्विधा व्याख्याताः । द्वैविध्यमेवाह-त्रसाश्च स्थावराश्चैव । स्थावरास्त्रिविधाः त्रिप्रकारास्तस्मिन्निति द्वैविध्ये सत्यल्पवक्तव्यत्वात् पश्चान्निर्देशेऽप्यादौ स्थावराभिधानम् ।।६८॥ तत् त्रैविध्यमेवाह पुढवी-आउ-जीवा य तहेव य वणस्सई । इच्चेए थावरा तिविहा तेसिं भेए सुणेह मे ॥६९॥ व्याख्या-जीवशब्दस्य प्रत्येकं सम्बन्धात् पृथिव्येव जीवाः पृथिवीजीवाः । आपो जलं ता एव जीवा अब्जीवाश्च । तथैव वनस्पतिजीवाः । जीव-शरीरयोरन्योऽन्यानुगतत्वेन कथञ्चिदभेदात् पृथिव्यादिषु जीवव्यपदेश इति । इत्येते पृथिव्यादयः स्थावरास्त्रिविधास्तेषां पृथिव्यादीनां भेदान् शृणुत 'मे' मम 'कथयत इति शेषः' ॥६९।। पृथिवीभेदनाह दुविहा पुढविजीवा उ सुहमा बायरा तहा । पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥७०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy