________________
८३८
उत्तरज्झयणाणि-२ वरगतिस्तां गताः । अयं भावः, किल चलने भवप्रपञ्च एव हेतुः, सिद्धानां हि तद्रहितत्वात् कुतस्तत्सम्भव इति ॥६३।। तेषां तत्र कियत्यवगाहना ? इत्याह
उस्सेहो जस्स जो होइ भवंमि चरिमंमि उ।
तिभागहीणा तत्तो य सिद्धाणोगाहणा भवे ॥६४॥ व्याख्या-उत्सेध उच्छ्रयः 'प्रक्रमाच्छरीरस्य' 'जस्स'त्ति 'वचनव्यत्याद्' येषां सिद्धानां य इति यत्परिमाणो भवेद् भवे चरमे पर्यन्तवर्तिनि 'तुर्विशेषणे' । त्रिभागहीना त्रिभागोना ततश्च चरमभवोत्सेधात् सिद्धानामवगाहना स्वप्रदेशनिचितिर्भवेदेवं च शरीरविवरणपूरण एतावतीत्यवगन्तव्यम् । उक्तं हि-देहतिभागे सुसिरं तत्पूरणओ तिभागहीण' त्ति ॥६४॥ एतानेव कालतो वक्तुमाह
एगत्तेण साईया अपज्जवसिया वि य ।
पुहुत्तेण अणाईया अपज्जवसिया वि य ॥६५॥ व्याख्या-एकत्वेनासहायत्वेन ते सादिका अपर्यवसिता अपि च । यत्र हि काले ते सिध्यन्ति स तेषामादिर्न तु कदाचिन्मुक्तेभ्रंश्यन्ति, अतो न पर्यवसानमिति । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेति यावदनादिका अपर्यवसिता अपि च । न हि कदाचित् ते नाभूवन् न भविष्यन्ति चेति ॥६५॥ एषामेव स्वरूपमाह
अरूविणो जीवघणा नाण-दसणसन्निया ।
अउलं सुहं संपत्ता उवमा जस्स नत्थि उ ॥६६॥ व्याख्या-अरूपिणस्तेषां रूपाद्यभावात् । जीवाश्च ते सततोपयुक्तया घनाश्च शुषिरपूरणतो जीवघनाः । ज्ञानदर्शने एव संज्ञा सम्यगवबोधरूपा सञ्जातैषामिति ज्ञानदर्शनसंज्ञिता ज्ञान-दर्शनोपयोगवन्त इत्यर्थः । अतुलमपरिमितं सुखं सम्प्राप्ताः । उपमा यस्य सुखस्य नास्ति 'तुरेवार्थे' न विद्यत एव । यतः-कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तमम्' इति ॥६६॥
१. 'देहत्रिभागः शुषिरं तत्पूरणतस्त्रिभागहीना' इति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org