________________
८३५
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् सिद्धानेवावगाहनातः क्षेत्रतश्चाह
उक्कोसोगाहणाए य जहन्न-मज्झिमाइ य । उर्दू अहेयं तिरियं च समुइंमि जलंमि य ॥५०॥
व्याख्या उत्कृष्टा चासाववगाहना च शरीरमुत्कृष्टावगाहना पञ्चधनुःशतप्रमाणा तस्यां सिद्धाः । 'चः समुच्चये' 'जहन्न-मज्झिमाइ य'त्ति अवगाहनायामिति प्रत्येक योगाजघन्यावगाहनायां द्विहस्तमानायां सिद्धाः । मध्यमावगाहनायामुत्कृष्ट-जघन्यान्तरालवर्तिन्यां सिद्धाः । ऊर्ध्वमित्यूर्ध्वलोके मेरुचूलिकादौ चैत्यवन्दकचारणश्रमणानां केषाञ्चिन्मुक्त्यवाप्तेः अधश्चाधोलोकग्रामे सिद्धाः । तिर्यक् च तिर्यग्लोके चार्धतृतीयद्वीपसमुद्ररूपे । समुद्रे जले च नद्यादेः 'भू-भूधरादीनामुपलक्षणम्' । इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धिः समर्थिता ॥५०॥
तत्रापि क्व कियन्तः सिध्यन्ति ? इत्याहदस य नपुंसएसुं वीसं इत्थियासु य । पुरिसेसु य अट्ठसय समएणेगेण सिज्झई ॥५१॥ चत्तारि य गिहिलिङ्गे अन्नलिङ्गे दसेव य । सलिङ्गेण य अट्ठसयं समएणेगेण सिज्झई ॥५२॥ उक्कोसोगाहणाए उ सिझंते जुगवं दुवे । चत्तारि जहन्नाए जवमज्झदुत्तरं सयं ॥५३॥ चउरुड्डलोए य दुवे समुद्दे तओ जले वीसमहे तहेव [य] । सयं च अट्टत्तर तिरियलोए समएणेगेण [उ] सिज्झई धुवं ॥५४॥
आसां व्याख्या-दशेति दशसङ्ख्याः । 'चशब्द: समुच्चये' नपुंसकेषु 'सिध्यन्तीति संटङ्कः' । विंशतिः स्त्रीषु च । पुरुषेषु चाष्टभिरधिकं शतमष्टशतं समयेनैकेन सिध्यति निष्ठितार्थं भवति ॥ चत्वारो गृहिलिङ्गे । दशैव चान्यलिङ्गे । अष्टशतं स्वलिङ्गे च समयेनैकेन सिध्यति ॥ उत्कृष्टावगाहनायां तूक्तरूपायां सिध्यतो युगपदेककालं द्वौ । चत्वारो जघन्यावगाहनायाम् । 'जवमज्झ'त्ति यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतम् । यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्ट-जघन्यावगाहनयोर्मध्यवर्तित्वात् ॥ चत्वार ऊर्ध्वलोके च । द्वौ समुद्रे । त्रयो जले । विंशतिरध इत्यधोलोके । तथैव शतं चाष्टोत्तरं तिर्यग्लोके समयेनैकेन सिध्यति । 'तुशब्दः पुनरर्थे'
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org