SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ८३४ उत्तरज्झयणाणि-२ जे आययसंठाणे भइए से उ वण्णओ। गंधओ रसओ चेव भइए फासओ वि य ॥४६॥ आसां व्याख्या-परिमण्डले संस्थाने 'वर्तत इति शेषः' भाज्यः स तु सामान्यप्रक्रमेऽपि परमाणूनां संस्थानाभावात् स्कन्ध एव ग्राह्यः । वर्णतो गन्धतो रसतः स्पर्शतोऽपि च । अत्र च वर्णादियोगाद् विंशतिर्भङ्गाः स्युः २०, एवं वृत्तेन २०, यत्रेण २०, चतुरस्त्रेण २०, आयतेन च २० । एवं संस्थानपञ्चकभङ्गसंयोगे लब्धं शतम् १०० । एवं वर्ण-गन्धरस-स्पर्श-संस्थानानां सकलभङ्गकसङ्कलनातो जातानि द्व्यशीत्यधिकानि चत्वारि शतानिअङ्कतोऽपि ४८२ । सर्वत्र जातावेकवचनम् । परिस्थूरन्यायेनैतदुक्तमन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गाः सम्भवन्ति । इति गाथापञ्चकार्थः ॥४२-४६।। अथोपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह एसा अजीवविभत्ती समासेण वियाहिया । इत्तो जीवविभत्तिं वुच्छामि आणुपुव्वसो ॥४७॥ व्याख्या-एषाऽनन्तरोक्ताऽजीवविभक्तिः समासेन सक्षेपेण व्याख्याता । इत इत्येतदनन्तरं जीवविभक्तिं वक्ष्यामि आनुपूर्व्या ॥४७॥ यथाप्रतिज्ञातमाह संसारत्था य सिद्धा य दुविहा जीवा वियाहिया । सिद्धा णेगविहा वुत्ता तं मे कित्तयओ सुण ॥४८॥ व्याख्या-संसारो गतिचतुष्टयात्मकस्तत्र तिष्ठन्तीति संसारस्थास्ते च सिद्धाश्च द्विधा द्विभेदा जीवा व्याख्याताः । तत्र सिद्धा अनेकधा उक्ताः । 'तमिति सूत्रत्वात्' तान् 'मे' मम कीर्तयतः शृणुत । अल्पवक्तव्यत्वात् पश्चान्निर्देशेऽपि पूर्वं सिद्धभेदाभिधानमदुष्टम् ॥४८॥ ___ एषामनेकविधत्वमाह इत्थी पुरिस सिद्धा य तहेव य नपुंसगा । सलिङ्गे अन्नलिंगे य गिहिलिङ्गे तहेव य ॥४९॥ व्याख्या-स्त्रियश्च पूर्वपर्यायापेक्षया सिद्धाश्च स्त्रीसिद्धाः । एवं पुरुषसिद्धाश्च । तथैव सिद्धशब्दयोगान्नपुंसकसिद्धाः । स्वलिङ्गं रजोहरण-मुखवस्त्रिकारूपं तस्मिन् सिद्धाः स्वलिङ्गसिद्धाः । अन्यदेतदपेक्षया लिङ्गमन्यलिङ्गं शाक्यादिसम्बन्धि तस्मिन् सिद्धाः । गृहिलिङ्गे गृहस्थवेषे सिद्धा मरुदेवास्वामिनीवत् । तथैवेति समुच्चये । चकारस्तीर्थसिद्धाद्यनुक्तभेदसूचकः ॥४९॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy