SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् ८३१ आसां व्याख्या - वर्णतः परिणता वर्णपरिणामभाजो येऽण्वादयः 'तुः पूरणे' पञ्चधा ते प्रकीर्त्तिताः कथिताः । तानेवाह - कृष्णाः कज्जलादिवत् । नीला नील्यादिवत्। लोहिता हिङ्गुलादिवत् । हारिद्रा हरिद्रादिवत् । शुक्लाः शङ्खादिवत् 'तथेति समुच्चये' ॥ गन्धतः 'सुब्भि' त्ति सुरभिर्गन्धो यस्मिन्नेवंविधः परिणामो येषां ते सुरभिगन्धपरिणामाः श्रीखण्डादिवत् । 'दुब्भि' त्ति दुरभिर्गन्धो येषां ते दुरभिगन्धा लशुनादिवत् । रसतः तिक्ता: कोशातक्यादिवत् । कटुकाः शुण्ठ्यादिवत् । कषायाश्चापक्वकपित्थादिवत् । अम्ला अम्लवेतसादिवत् । मधुराः शर्करादिवत् ।। स्पर्शतः कर्कशाः पाषाणादिवत् । मृदवो हंसरुतादिवत् । गुरवो हीरकादिवत् । लघवोऽर्कतूलादिवत् । शीता मृणालादिवत् । उष्णा वह्न्यादिवत् । स्निग्धा घृतादिवत् । रूक्षा भूत्यादिवत् । इत्यमुना प्रकारेण स्पर्शपरिणता एते स्कन्धादयः पूरण- गलनधर्माण: पुद्गलाः समुदाहृताः सम्यगुपदिष्टास्तीर्थकृदादिभिः ॥ सन्तिष्ठन्ते एभिः स्कन्धादय इति संस्थानानि । तद्रूपेण परिणताः परिमण्डलादयः प्रागुक्तस्वरूपा एवेति गाथाषट्कार्थः ॥ १६-२१॥ सम्प्रत्येषामेव परस्परसम्बन्धमाह वण्णओ जे भवे किण्हे भइए से उ गन्धओ । रसओ फासओ चेव भइए संठाणओ वि य ॥२२॥ वण्णओ जे भवे नीले भइए से उ गन्धओ । रसओ फासओ चेव भइए संठाणओ विय ॥२३॥ वण्णओ लोहिए जे उ भइए से उ गंधओ । रसओ फासओ चेव भइए संठाणओ विय ॥२४॥ aurओ पीइए जे उ भइए से उ गंधओ । रसओ फासओ चेव भइए संठाणओ वि य ॥२५॥ aurओ सुकिले जे उ भइए से उ गंधओ । रसओ फासओ चेव भइए संठाणओ विय ॥२६॥ आसां व्याख्या - वर्णतो यः स्कन्धादिर्भवेत् कृष्णः 'भइए' त्ति भाज्यः स पुनर्गन्धतो गन्धमाश्रित्य सुरभिगन्धिर्दुरभिगन्धिर्वा स्यान्न तु नियतगन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च । अन्यतररसादियोग्यो वाऽसौ भवेदिति हृदयम्। अत्र च गन्धौ द्वौ रसाः पञ्च, स्पर्शा अष्टौ संस्थानानि पञ्च, एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गाँल्लभते २० । एवं नीलोऽपि २० । लोहितोऽपि Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy