________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
८२९ रूपिद्रव्यभेदौ । तयोश्च किं लक्षणम् ? इत्याह
एगत्तेण पुहुत्तेण खंधा य परमाणुणो । लोएगदेसे लोए य भइयव्वा ते उ खेत्तओ।
इत्तो कालविभागं तु तेसिं वुच्छं चउव्विहं ॥११॥ व्याख्या-एकत्वेन समानपरिणतिरूपेण, पृथक्त्वेन परमाण्वन्तरैरसङ्घातरूपेण 'लक्ष्यन्ते इति शेषः' के ? इत्याह-स्कन्धाः परमाणवश्च । स्कन्धा हि संहतानेकपरमाणुरूपाः । परमाणवश्च परमाण्वन्तरैरसंहतिभाजः । एतानेव क्षेत्रत आह-'लोए'त्ति लोकस्य चतुर्दशरज्ज्वात्मकस्यैकदेश एक-द्वयादिसङ्ख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च भक्तव्या भजनीयास्ते स्कन्धाः परमाणवश्च 'तुः पूरणे' क्षेत्रतः क्षेत्रमाश्रित्य । अत्र च सामान्योक्तावपि परमाणूनामेकप्रदेशे एवावस्थानात् । स्कन्धाश्च बहुप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, अन्ये तु सङ्ख्येयेष्वसङ्ख्येयेषु च प्रदेशेषु, यावत् सकललोके तथाविधाचित्तमहास्कन्धवद् भवेयुरिति भजनीयाः परिणतेविचित्रत्वात् ॥ 'इत्तो'त्ति इतः क्षेत्रप्ररूपणानन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साधनादि-सपर्यवसितापर्यवसितभेदेनानन्तरमेव वक्ष्यमाणेनेति । इयं षट्पादरूपा गाथा ॥११॥ प्रतिज्ञामाह
संतई पप्प तेऽणाईया अपज्जवसिया वि य ।
ठिई पडुच्च साईया सप्पज्जवसिया वि य ॥१२॥ व्याख्या-सन्ततिमपरापरोत्पत्तिप्रवाहरूपां प्राप्य ते स्कन्धाः परमाणवश्चानादयोऽपर्यवसिता अपि च न हि ते कदापि प्रवाहतो न भूता न भविष्यन्तीति । स्थिति प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्याङ्गीकृत्य सादिकाः सपर्यवसिता अपि च ॥१२।। सादि-सपर्यवसितत्वेऽपि कियत्कालमेषां स्थितिः ? इत्याह
असंखकालमुक्कोसा इक्कं समओ जहन्नयं ।
अजीवाण य रूवीणं ठिई एसा वियाहिया ॥१३॥ व्याख्या असङ्ख्यकालमुत्कृष्टा, एकसमयं जघन्यिका, अजीवानां रूपिणां पुद्गलानामित्यर्थः स्थितिरेषा व्याख्याता । जघन्यत एकसमयादुत्कृष्टतश्चासङ्ख्येयकालात् परतोऽवश्यमेव विचटनात् ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org