________________
८२८
उत्तरज्झयणाणि-२ ___ व्याख्या-धर्माधर्मी धर्मास्तिकायाधर्मास्तिकायौ च द्वावप्येतौ लोकमात्रौ लोकपरिमाणौ व्याख्यातौ । तथा लोकेऽलोके चाकाशं सर्वगतत्वात् तस्य । समय इत्यद्धासमयः समयोपलक्षितं क्षेत्रमर्धतृतीयद्वीप-समुद्रास्तद्विषयभूतमस्यास्तीति समयक्षेत्रिकस्तत्परतस्तस्यासम्भवात् । आवलिकादयोऽपि कालभेदाः समयमूलत्वादेतत्क्षेत्रवतिन एव ज्ञेयाः ॥७॥ एतानेव कालत आह
धम्माधम्मागासा तिन्नि वि एए अणाइया । अपज्जवसिया चेव सव्वद्धं तु वियाहिया ॥८॥ समए वि संतई पप्प एवमेव वियाहिये ।
आएसं पप्प साईए सपज्जवसिए वि य ॥९॥ अनयोर्व्याख्या-धर्माधर्माकाशानि त्रीण्यप्येतान्यनादिकानि, इतः कालात् प्रभृत्यमूनि प्रवृत्तानीत्यसम्भवात्, अपर्यवसितान्यनन्तानीत्यर्थः, न हि कुतश्चित् कालात् परत एतेषामसम्भव इति । 'चैवाववधारणे' । सर्वाद्धां तु सर्वकालमेव सर्वदा स्वरूपापरित्यागतो नित्यानीति यावद् व्याख्यातानीति 'लिङ्गव्यत्ययः प्राकृतत्वात्' ॥ समयोऽपि सन्ततिमपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्याश्रित्यैवमेवानाद्यपर्यवसितत्वलक्षणेन प्रकारेण व्याख्यातः। आदेशं विशेष प्रतिनियतव्यक्त्यात्मकं प्राप्याङ्गीकृत्य सादिकः सपर्यवसितोऽपि च 'समय इति योज्यम्' । विशेषापेक्षया ह्यभूत्वाऽयं भवति, भूत्वा च न भवतीति सादिनिधन उच्यते इति गाथाद्वयार्थः ॥८-९॥
इत्थमजीवानामरूपिणां द्रव्य-क्षेत्र-कालैः प्ररूपणा कृता । सम्प्रति भावप्ररूपणायां प्रस्तुतायामप्यमीषाममूर्तत्वेन वर्णादिपर्यायाः प्ररूप्यमाणा अपि नावगन्तुं शक्याः । अनुमानतस्तु द्रव्याणां पर्यायावियुतत्वेन भावा गम्यन्त एवेति भावप्ररूपणामनादृत्य रूपिणो द्रव्यतः प्ररूपयितुमाह
खंधा य खंधदेसा य तप्पएसा तहेव य ।
परमाणुणो य बोद्धव्वा रूविणो य चउव्विहा ॥१०॥ व्याख्या-स्कन्धाः १ 'चः समुच्चये' । स्कन्धानां देशा भागाः स्कन्धदेशाः २॥ स्कन्धानां प्रदेशा निरंशा भागास्तत्प्रदेशाः ३। तथैव च परमाणवो निर्विभागद्रव्यरूपाश्च ४। बोद्धव्या ज्ञातव्या रूपिणः ‘च पुनः' चतुर्विधाश्चतुष्प्रकारा इति ॥१०॥
इह देश-प्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org