SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम् जीवाजीवविभक्तिर्यथा स्यात् तथाऽऽह— दव्वओ खित्तओ चेव कालओ भावओ तहा । परूवणा तेसिं भवे जीवाणमजीवाण य ॥३॥ व्याख्या - द्रव्यतो द्रव्यमाश्रित्येदमियद्भेदं द्रव्यमिति । क्षेत्रतश्चैवेदमियति क्षेत्र इति । कालत इदमियत्कालस्थितिकमिति । भावत इमे अस्य पर्याया इति । प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवेज्जीवानामजीवानां चेति ॥३॥ स्वल्पवक्तव्यामजीवप्ररूपणां द्रव्यत आह रूविणो चेवरूवी य अजीवा दुविहा भवे । अरूवी दसहा वुत्ता रूविणो वि चउव्विहा ॥४॥ ८२७ व्याख्या–रूपं स्पर्शाद्याश्रया मूर्त्तिस्तदेषामस्तीति रूपिणः, 'चः समुच्चये' 'रूविणो चेव' इत्यतो वकारादकारप्रश्लेषाद् वचनव्यत्ययाच्चारूपिणश्च नैषां तादृग् रूपमस्तीति कृत्वा । अजीवा द्विविधा 'भवे 'त्ति भवेयुस्तत्राप्यरूपिणो दशधा दशप्रकारा उक्ताः ‘अर्हदादिभिरिति शेष:' । रूपिणः पुनश्चतुर्विधा 'उभयत्राजीवा इति प्रक्रमः ' ॥४॥ अरूपिणो दशविधत्वमाह धम्मत्थिकार तसे तप्प से य आहिए । अहम्मे तस्स देसे य तप्पएसे य आहिए ॥५॥ आगासे तस्स देसे य तप्पएसे य आहिए । अद्धासमए चेव अरूवी दसहा भवे ॥६॥ अनयोर्व्याख्या-धर्मास्तिकायो गत्युषष्टम्भलक्षणः सर्वदेशप्रदेशानुगतसमान परिणतिमद् द्रव्यम् १ | तस्य धर्मास्तिकायस्य देशस्त्रिभाग - चतुर्भागादिस्तद्देशः २। तस्यैव प्रदेशो निरंशो भागस्तत्प्रदेशः ३ | आख्यातः कथितः । अधर्मास्तिकायः स्थित्युपष्टम्भकलक्षणः ४। तस्याधर्मास्तिकायस्य देशश्चोत्तरूप: ५। तस्यैव प्रदेशस्तथाविध एव तत्प्रदेशः ६। आकाशास्तिकायोऽवकाशावष्टम्भकः ७ तद्देशः ८ । तत्प्रदेशः ९ । आख्यातः । अद्धा कालो वर्तनालक्षणस्तद्रूपः समयोऽद्धासमयो निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः १०। एवमरूपिणो दशधा भवेयुरिति गाथाद्वयार्थः ॥५-६॥ एतानेव क्षेत्रत आह धम्माधम्मे य दो एए लोगमित्ता वियाहिया । लोगालोगे य आगासे समए समयखेत्तिए ॥७॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy