________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
अनन्तराध्ययने भिक्षुगुणा उक्तास्ते च जीवाजीवस्वरूपपरिज्ञानत एवासेवितुं शक्यन्त इति तज्ज्ञापनार्थमधुना षट्त्रिंशमध्ययनमारभ्यते—
जीवाजीवविभति सुणेह मे एगमणा इओ ।
जं जाणिऊण भिक्खू सम्मं जयइ संजमे ॥ १ ॥
व्याख्या- जीवाश्चोपयोगलक्षणा अजीवाश्च तद्विपरीता जीवाजीवास्तेषां विभक्तिस्तत्तद्भेदादिदर्शनाद् विभागेनावस्थापनं जीवाजीवविभक्ति 'मे' मम 'कथयत इति गम्यते' शृणुत 'हे शिष्या इति शेषः ' किम्भूताः सन्तः ? एकमनस एकाग्रचित्ता इत इत्यस्मादनन्तराध्ययनश्रवणादनन्तरम् । यां जीवाजीवविभक्तिं ज्ञात्वा भिक्षुः सम्यक् प्रशस्तं यथा स्यादेवं यतते यत्नं कुरुते । क्व ? संयमे ॥ १ ॥
तामेवाह
जीवा चेव अजीवा य एस लोए वियाहिए । अजीवदेसमागासे अलोए से वियाहिए ॥ २ ॥
व्याख्या - जीवाश्चैवाजीवाश्च । कोऽर्थः ? जीवाजीवरूप एष प्रतिप्राणिप्रतीतो लोको व्याख्यातोऽर्हदादिभिरिति । जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वात् । अजीवो धर्माधर्माकाश-पुद्गलात्मकस्तस्य देशोंऽशोऽजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिवृत्तिरहितस्याकाशस्यैवालोकत्वात् । उक्तं च'धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् | तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम्" ॥१॥
इति जीवाजीवाविभक्तिप्रसङ्गतो लोकालोकविभक्तिरप्युक्तेति भावः ॥२॥
44
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org