________________
पञ्चत्रिंशमनगारगतिनामकाध्ययनम्
८२५ काले प्राप्ति विधि फलं चाह
णिज्जूहिऊण आहारं कालधम्मे उवट्ठिए ।
चइऊण माणुसं बोंदि पहू दुक्खे विमुच्चई ॥२०॥ व्याख्या-'णिज्जूहिऊणं'त्ति परित्यज्याहारं संलेखनाक्रमेण, झगिति तत्त्यागे बहुदोषसम्भवाद् । उक्तं च
"देहमि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं ।
जायइ अट्टज्झाणं सरीरिणो चरमकालंमि" ॥१॥ कदा ? इत्याह-कालधर्मे आयुःक्षयलक्षणे उपस्थिते प्रत्यासन्नीभूते त्यक्त्वा मानुषीं मनुष्यसम्बन्धिनीं 'बोंदि' शरीरं प्रभुर्वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् दुःखैः शारीरादिभिर्विमुच्यते तद्धेतुकर्मापगमत इति भावः ॥२०॥ कीदृशः सन् ? इत्याह
निम्ममो निरहंकारो वीयरागो अणासवो ।
संपत्तो केवलं नाणं सासयं परिनिव्वुडे ॥२१॥ त्ति बेमि ॥ व्याख्या-निर्ममोऽपगतममकारः, निरहङ्कारः प्राग्वत् । यतो वीतरागः 'उपलक्षणाद् वीतद्वेषश्च' । अनाश्रवः कर्माश्रवरहितः । सम्प्राप्तः केवलं ज्ञानं शाश्वतं कदाचिदप्यव्यवच्छेदात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति ब्रवीमीति पूर्ववत् ॥२१॥ ग्रं० १०२।। इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायामं
पञ्चत्रिंशमनगारगतिनामकाध्ययनं समाप्तम् ॥३५॥
१. देहेऽसंलिखिते सहसा धातुषु क्षीयमाणेषु ।
जायते आर्तध्यानं शरीरिणश्चरमकाले ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org