________________
पञ्चत्रिंशमनगारगतिनामकाध्ययनम्
८२३ व्याख्या-विसर्पतीति विसर्प यत् स्वल्पमपि बहु भवति । सर्वतः सर्वासु दिक्षु धारा जीवनाशिनी शक्तिरस्येति सर्वतोधारं सर्वदिगवस्थितजन्तूपघातकत्वादत एव बहुप्राणविनाशनं नास्ति ज्योतिःसममग्नितुल्यं शस्त्रमन्यदिति । 'सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात्' । तस्माज्ज्योतिर्वहिं न दीपयेन्न ज्वालयेदनेन पचनस्याग्निज्वलनाविनाभावित्वात् तत्त्याग एव समर्थितः । तत्प्रसङ्गत: शीतापनोदाद्यर्थमपि तदारम्भनिषेध एवावसेयः ॥१२॥
पचनादौ जीवघातहेतुत्वान्निषेधोऽस्तु, तदभावमिच्छता क्रय-विक्रयाभ्यां निर्वाह: क्रियत इत्याशङ्क्याह
हिरण्णं जायरूवं च मणसा वि न पत्थए । समलेछु-कंचणे भिक्खू विरए कय-विक्कए ॥१३॥ किणंतो कइओ होइ विकिणंतो य वाणिओ। कय-विक्कयंमि वढ्तो भिक्खू हवइ न तारिसो ॥१४॥ भिक्खियव्वं न केयव्वं भिक्खुणा भिक्खवित्तिणा ।
कय-विक्कओ महादोसो भिक्खावित्ती सुहावहा ॥१५॥ आसां व्याख्या-हिरण्यं हेम, जातरूपं रूप्यं 'चशब्दाद् धन-धान्यादि' मनसाप्यास्तां वाचा न प्रार्थयेन्ममामुकं स्यादिति । 'अपेर्गम्यत्वात्' प्रार्थयेदपि न, कि पुनः परिगृह्णीयाद् 'भिक्षुरिति योगः' । कीदृशः ? समलेष्ट-काञ्चनः । विरतो निवृत्तः । कुतः ? क्रयो मूल्येनान्यस्माद् वस्तुग्रहणम्, विक्रयो मूल्येनान्यस्य स्ववस्तुदानं ततः समाहारस्तस्मात् 'पञ्चम्यर्थे सप्तमी' ॥ किमित्येवम् ? अत आह-क्रीणन् क्रयिको भवतीतरलोकवत् । विक्रीणानश्च वणिग् भवति । वाणिज्यप्रवृत्तत्वादिति भावः । अत एव क्रय-विक्रये वर्तमानो भिक्षुर्भवति न तादृशो यादृश सूत्रोक्तो भावभिक्षुरिति भावः ॥ ततः किम् ? इत्याह-भिक्षितव्यं याचितव्यं 'तथाविधं वस्तित्वति गम्यम्,' न क्रेतव्यं मूल्येन गृहीतव्यम्, केन ? भिक्षुणा । कीदृशा ? भिक्षयैव वृत्तिनिर्वाहोऽस्येति भिक्षावृत्तिस्तेन । यतः क्रय-विक्रयो महादोषो भिक्षावृत्तिः शुभावहा सुखावहा वा इहलोक-परलोकयोरिति गाथात्रयार्थः ॥१३-१५।। भिक्षितव्यमित्युक्तं तच्चैकत्रैवापि स्यादत आह
समुयाणं उंछमेसिज्जा जहासुत्तमणिदियं । लाभालाभंमि संतुढे पिंडवायं चरे मुणी ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org