SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-२ परकृत इति किमुक्तम् ? अत आह न सयं गिहाई कुव्विज्जा नेव अन्नेहिं कारए । गिहकम्मसमारंभे भूयाणं दिस्सए वहो ॥८॥ व्याख्या-न स्वयं गृहाणि कुर्वीत । नैवान्यैर्गृहस्थादिभिः कारयेद् ‘उपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत' । यतो गृहकर्मेष्टका-मृदानयनादि तस्य समारम्भस्तस्मिन् भूतानामेकेन्द्रियादीनां दृश्यते वधो विनाशः ॥८॥ पुनः केषाम् ? इत्याह तसाणं थावराणं च सुहुमाणं बायराण य । तम्हा गिहसमारंभं संजओ परिवज्जए ॥९॥ व्याख्या-त्रसाणां द्वीन्द्रियादीनाम्, स्थावराणां पृथिव्यादीनां 'चः समुच्चये', सूक्ष्माणां श्लक्षणानामङ्गापेक्षया, बादराणां स्थूलानां तथैव । यस्मादेवं वधस्तस्माद् गृहसमारम्भं संयतः परिवर्जयेदिति गाथाऽर्थः ।।९।। अथाहारचिन्तामाह तहेव भत्त-पाणेसु पयणे पयावणेसु य । पाण-भूयदयट्ठाए न पए न पयावए ॥१०॥ जल-धन्ननिस्सिया जीवा पुढवी-कट्ठनिस्सिया । हम्मति भत्त-पाणेसु तम्हा भिक्खू न पयावए ॥११॥ __ अनयोर्व्याख्या-तथैव भक्तान्योदनादीनि, पानानि पयःप्रभृतीनि तेषु पचनानि स्वयं क्वथनादीनि, पाचनानि च तान्येवान्यैः पचन-पाचनानि तेषु च 'भूतवधो दृश्यत इति प्रक्रमः' । ततः किम् ? इत्याह-प्राणा द्वीन्द्रियादयः, भूताः पृथ्व्यादयस्तेषां दयार्थं रक्षार्थं न पचेत् स्वयं, न पाचयेदन्यैरिति ॥ अमुमेवार्थं स्पष्टतरमाह-जलं च धान्यं च तेषु निश्रितास्तत्रान्यत्र चोत्पन्ना वा तन्निश्रिता जीवाः पृथिवी-काष्ठनिश्रिता हन्यन्ते भक्त-पानेषु पच्यमानेषु । यत एवं तस्माद् भिक्षुर्न पाचयेद् 'अपेर्गम्यत्वान्न स्वयं पचेदन्यं वा पचन्तं नानुमन्येत' इति गाथाद्वायार्थः ॥१०-११॥ अपरं च विसप्पे सव्वओ-धारे बहुपाणविणासणे । नत्थि जोइसमे सत्थे तम्हा जोइं न दीवए ॥१२॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy