________________
पञ्चत्रिंशमनगारगतिनामकाध्ययनम्
८२१ अथोपाश्रयाचारविधिमाह
मणोहरं चित्तघरं मल्लधूवेण वासियं ।
सकवाडं पंडुरुल्लोयं मणसा वि न पत्थए ॥४॥ व्याख्या-मनोहरं चित्ताक्षेपकम्, चित्रप्रधानं गृहं चित्रगृहम्, कीदृशं ? माल्यैग्रंथितपुष्पैचूंपनैश्चागुरु-तुरुष्कादिभिर्वासितं सुरभीकृतम्, सह कपाटेन वर्तत इति सकपाटम्, तदपि पाण्डुरोल्लोचं श्वेतचन्द्रोदयं मनसाऽप्यास्तां वचसा न प्रार्थयेन्नाभिलषेत् किं पुनस्तत्र तिष्ठेदिति भावः ॥४॥ कुतः ? इत्याह
इंदियाणि उ भिक्खुस्स तारिसंमि उवस्सए ।
दुक्कराई निवारेउं (तु धारेउं) कामरागविवड्डणे ॥५॥ व्याख्या-इन्द्रियाणि 'तुः' यस्माद् भिक्षोर्यतेस्तादृशे उपाश्रये दुष्कराणि 'करोतेः सर्वधात्वर्थत्वाद्' दुःशकानि 'तुरेवार्थे' निवारयितुं नियन्त्रयितुं 'स्वस्वविषयप्रवृत्तेरिति गम्यते' किम्भूते ? कामा मनोज्ञा इन्द्रियविषयास्तेषु रागस्तस्य विवर्धने । तथा च तथाविधचित्तव्याक्षेपसम्भवान्मूलगुणस्यातीचारदोषसम्भव इत्युपदेश इति भावः ॥५॥ तर्हि कीदृशे स्थेयम् ? इत्याह
सुसाणे सुन्नगारे वा रुक्खमूले व एगओ। पइरिक्के परकडे वा वासं तत्थाभिरोयए ॥६॥ फासुयंमि अणाबाहे इत्थीहिं अणभिहुए ।
तत्थ संकप्पए वासं भिक्खू परमसंजए ॥७॥ अनयोक्ख्या -श्मशाने शून्यागारे वा वृक्षमूले वा 'एगाउ' त्ति एकको रागद्वेषरहितोऽसहायो वा । 'पइरिक्के त्ति देशीभाषयैकान्ते स्त्र्याधसङ्कले परकृते परैरन्यैर्निष्पादिते "स्वार्थमिति गम्यम्' । वासमवस्थानं तत्र श्मशानादावभिरोचयेत् प्रतिभासयेद् 'अर्थादात्मन' "भिक्षुरिति योगः' ॥ प्रासुकेचित्तीभूते भूभागेऽनाबाधे स्वस्य परेषां च बाधारहिते स्त्री-पण्डकादिभिरनभिद्रुते तदुपद्रवरहिते तत्र प्रागुक्तश्मशानादौ सङ्कल्पयेत् सम्यक् कुर्याद् वासमवस्थानं भिक्षुः । स च शाक्यादिरपि स्यादत आह-परमसंयतो मोक्षोद्यतोऽर्हन्मार्गाश्रित इति । प्रागभिरोचयेदित्युक्ते कश्चिद् रुचिमात्रेणैव तुष्येदित्यत्र सङ्कल्पयेत् कुर्यादित्युक्तम् ॥६-७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org