SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ पञ्चत्रिंशमनगारगतिनामकाध्ययनम् अनन्तराध्ययने लेश्या उक्तास्ताश्चाप्रशस्तास्त्याज्याः, प्रशस्ताश्चाधिष्ठातव्याः । एतच्च भिक्षुगुणवतैव कर्तुं शक्यमिति भिक्षुगुणाभिधायकं पञ्चत्रिंशमध्ययनमारभ्यते सुणेह मे एगग्गमणे( णा) मग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू दुक्खाणंतकरो भवे ॥१॥ व्याख्या-शृणुत 'मे' मम 'कथयत इति शेषः' एकाग्रमनस: 'शिष्या इति शेषः' । किम् ? इत्याह-मार्ग 'प्रक्रमान्मुक्तेः' बुद्धैरवगतसम्यक्तत्वैरौंदादिभिरर्थतः, सूत्रतो गणधरादिभिर्देशितम् । यं मार्गमाचरन्नासेवमानो भिक्षुरनगारो दुःखानां मानसादीनामन्तः पर्यन्तस्तत्करणशीलोऽन्तकरो भवेत् सर्वकर्मनिर्मूलनादिति भावः ॥१॥ यथाप्रतिज्ञातमाह गिहवासं परिच्चज्ज पव्वज्जामस्सिए मुणी । इमे संगे वियाणिज्जा जेहिं सज्जंति माणवा ॥२॥ तहेव हिंसं अलियं चोज्जं अब्बंभसेवणं । इच्छा कामं च लोहं च संजओ परिवज्जए ॥३॥ अनयोक्ख्या -गृहवासं गृहावस्थानं परित्यज्य प्रव्रज्यां सर्वसङ्गत्यागलक्षणां दीक्षामाश्रितो मुनिरिमान् प्रत्यक्षान् सङ्गान् पुत्रादिप्रतिबन्धान् विजानीयाद् भवहेतवोऽमीति विशेषेणावबुध्येत । ज्ञानस्य विरतिफलत्वात् प्रत्याचक्षीतेत्युक्तं स्यात् । सङ्गस्वरूपमाह-'जेहिं ति 'सुब्व्यत्ययाद्' येषु सज्यन्ते प्रतिबध्यन्ते मानवा: 'उपलक्षणत्वादन्येऽपि जीवाः' । तथैव हिंसां प्राणनाशम्, अलीकं, चौर्यं च स्पष्टम्, अब्रह्मसेवनं मैथुनाचरणम्, इच्छा, काममप्राप्तवस्तुकाङ्क्षारूपम्, लोभं च लब्धवस्तुगृद्ध्यात्मकमनेनोभयेनापि परिग्रह उक्तस्तं च संयतो यतिः परिवर्जयेत् । अनेन मूलगुणा उक्ताः । इति गाथाद्वयार्थः ॥२-३॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy