________________
चतुस्त्रिंशं लेश्याध्ययनम्
८१९ मुहूर्तमुत्तरभवलेश्यायाः सद्भावात् । देवानां नारकाणां च च्यवनानन्तरं नर-तिर्यसूत्पन्नानां प्राग्भवलेश्यायास्तावत्कालमवस्थितत्वात् । उक्तं च
"तिरि नर आगामिभवलेसाए अइगए सुरा निरया ।
पुव्वभवलेससेसे अंतमुहुत्ते मरणमिति" ॥१॥ अत एव देव-नारकाणां लेश्यायाः प्रागुत्तरभवान्तर्मुहूर्तद्वयसहितनिजायुःकालं यावदवस्थित्वमुक्तमागमे । तथा च प्रज्ञापनासूत्रम्-"जल्लेसाई दव्वाइं आयइत्ता कालं करेइ, तल्लेसेसु उववज्जइ । तथा कण्हलेसे नेरइए उववज्जति, कण्हलेसे उव्वट्टइ" ॥ इत्यादि । देवालापकोऽप्येवम् । अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इति भावः ॥६०॥ सम्प्रत्यध्ययनार्थमुपसंजिहीर्षुराह
तम्हा एयासि लेसाणं अणुभागे वियाणिया । अप्पसत्थाओ वज्जित्ता पसत्थाओ अहिट्ठिए मुणि ॥६१॥
त्ति बेमि ॥ व्याख्या-यस्मादप्रशस्ता एता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः । तस्मादेतासामनन्तरमुक्तानां लेश्यानामनुभागं विज्ञायाप्रशस्ताः कृष्णाद्यास्तिस्रो वर्जयित्वा प्रशस्तास्तैजस्याद्यास्तिस्रोऽधितिष्ठेत भावप्रतिपत्त्याश्रयेन्मुनिरिति ब्रवीमीति प्राग्वत् ॥६१॥ ग्रं० २६९ अ० १६॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
चतुस्त्रिंशं लेश्याध्ययनं समाप्तम् ॥३४॥
.
.
१. तिर्यञ्चो नरा आगामिभवलेश्याया अतिगते, सुरा नैरयिकाः ।
पूर्वभवलेश्याशेषेऽन्तर्मुहूर्ते मरणं यान्ति ॥१॥ २. यल्लेश्यानि द्रव्याण्यादाय कालं करोति, तल्लेश्येषूपपद्यते ।
तथा कृष्णलेश्यो नैरयिक उपपद्यते, कृष्णलेश्य उद्वर्तते ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org