________________
८१८
गतिद्वारमाह
किण्हा नीला काऊ तिन्नि वि एयाओ अहम्मलेसाओ । एयाहिं तिहिं वि जीवो दुग्गइं उववज्जई ॥५६॥ ऊ पम्हा सुक्का तिन्नि वि एयाओ धम्मलेसाओ । याहिं तिहिं वि जीवो सुग्गइं उववज्जई ॥५७॥
उत्तरज्झयणाणि - २
अनयोर्व्याख्या- कृष्णाद्यास्तिस्त्रो लेश्या अधर्मलेश्या पापोपादानहेतुत्वात्, अधमलेश्या वा अविशुद्धत्वेन । एताभिस्तिसृभिर्लेश्याभिर्जीवो दुर्गतिं नरक - तिर्यग्गतिरूपामुपपद्यते ' धातूनामनेकार्थत्वात्' प्राप्नोति ।। तैजस्याद्यास्तिस्रोऽप्येता लेश्या धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्वात् । अत एवैताभिस्तिसृभिर्लेश्याभिर्जीवः सुगतिं देवमनुष्यगतिलक्षणां मुक्ति वोपपद्यते तथाविधायुर्बन्धत इति गाथाद्वयार्थः ॥५६-५७॥
ननु जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुष उदयः ? उत चरमसमये - ऽथान्यथा वा ? इत्याशङ्क्यायुर्द्वारावसर एव तदुत्तरमाह
साहिं सव्वाहिं पढमे समयंमि परिणयाहिं तु । न हु कस्सइ उववाओ परभवे अस्थि जीवस्स ॥५८॥
साहिं सव्वाहिं चरमे समयंमि परिणयाहिं तु ।
न हु कस्स उववाओ परभवे अत्थि जीवस्स ॥५९॥
अनयोर्व्याख्या-सर्वाभिर्लेश्याभिः षड्भिरपि प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतामापन्नाभिः 'तुः पूरणे' 'न हु'त्ति नैव कस्याप्युत्पत्तिः परभवेऽस्ति जीवस्य ॥ [सर्वाभिः ] लेश्याभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु 'न हु' नैव कस्याप्युत्पत्तिः परभवे भवति जीवस्य ॥ ५८-५९॥
कदा तर्हि ? इत्याह
अंतोमुहत्तंमि गए अंतमुहुत्तंमि सेसए चेव ।
लेसाहिं परिणयाहिं जीवा गच्छंति परलोयं ॥६०॥
व्याख्या - अन्तर्मुहूर्ते गते एवातिक्रान्ते, तथाऽन्तर्मुहूर्ते शेषके चैवावतिष्ठमाने एव, लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं भवान्तरम् । इत्थं चैतत्, मृतिकाले भाविभवलेश्यायाः, उत्पत्तिकाले चातीतभवलेश्याया अन्तर्मुहूर्तमवश्यम्भावात् । न चैतदन्यथा, नर- तिरश्चां देव-तिरश्चां देव - नारकेषूत्पत्स्यमानानां मृतिकालेऽन्त
Jain Education International 2010_02
For Private & Personal Use Only
-
www.jainelibrary.org