________________
चतुस्त्रिंशं लेश्याध्ययनम्
८१७ प्रतिज्ञातमाह
पलिओवमं जहन्ना उक्कोसा सागरा उ दुन्नहिया ।
पलियमसंखिज्जेणं होइ भागेण तेऊए ॥५२॥ व्याख्या-पल्योपमं जघन्या । तथोत्कृष्टा सागरे तु सागरोपमे द्वे द्विसङ्ख्ये अधिके पल्योपमासङ्ख्येयेन भागेन भवति तैजस्यास्तेजोलेश्यायाः 'स्थितिरिति प्रक्रमः' । इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतया नेया । तत्र सौधर्मेशानदेवानां जघन्योत्कृष्टाभ्यामेतावदायुषः सम्भवात् । उपलक्षणाच्छेषनिकायानामपि तेजोलेश्या स्थितिज़ैया ॥५२॥
दस वाससहस्साइं तेऊए ठिई जहन्निया होइ ।
दुन्नुदही पलिओवमअसंखभागं च उक्कोसा ॥५३॥ व्याख्या-स्पष्टा, नवरमनेन निकायभेदमनङ्गीकृत्यैव लेश्यास्थितिरुक्ता । तैजस्या दशवर्षसहस्रात्मिका जघन्या स्थितिर्भवनपति-व्यन्तराणाम् । उत्कृष्टा त्वीशाने एवेति ॥५३॥ पद्मायाः स्थितिमाह
जा तेऊइ ठिई खलु उक्कोसा सा उ समयमब्भहिया ।
जहन्नेणं पम्हाए दस उ मुहुत्ताहियाइं उक्कोसा ॥५४॥ व्याख्या-या तैजस्याः स्थितिः खलूत्कृष्टा 'सा उ'त्ति 'तुरेवार्थे' सैव समयाधिका जघन्येन पद्मायाः 'स्थितिरिति प्रक्रमः' । दशैव 'प्रस्तावात् सागरोपमाणि' मुहूर्ताधिकान्युत्कृष्टा । इयं च जघन्या सनत्कुमारे, उत्कृष्टा च ब्रह्मलोके, अनयोरेवैतदायुष्कसम्भवात् ॥५४॥ शुक्ललेश्यास्थितिमाह
जा पम्हाइ ठिई खलु उक्कोसा सा उ समयमब्भहिया ।
जहन्नेणं सुक्काए तित्तीसमुहुत्तमब्भहिया ॥५५॥ व्याख्या-या पद्मायाः स्थितिः खलूत्कृष्टा सैव समयाभ्यधिका जघन्येन शुक्लायाः ‘स्थितिरिति प्रक्रमः' । त्रयस्त्रिंशन् मुहूर्ताभ्यधिकानि सागरोपमाणि 'उत्कृष्टेति गम्यते' । अस्याश्च लान्तकाख्यषष्ठदेवलोकादारभ्य सर्वार्थसिद्धि यावत् सम्भवादत्रैवैतावदायुषो भाव इति कृत्वा ॥५५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org