SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ८१६ उत्तरज्झयणाणि-२ एसा तिरियनराणं लेसाण ठिई उ वन्निया होइ । तेण परं वुच्छामि लेसाण ठिई उ देवाणं ॥४७॥ व्याख्या-सुगमा ॥४७॥ तत्स्थितिमाह दस वाससहस्साइं किण्हाए ठिई जहन्निया होइ । पलियमसंखिज्जइमो उक्कोसा होइ किण्हाए ॥४८॥ व्याख्या-दश वर्षसहस्राणि कृष्णायाः स्थिति घन्यिका भवति । भवनपतिव्यन्तराणां जघन्यतोऽप्येतावत्स्थितिकानामेवास्याः सम्भवात् । पल्योपमासङ्ख्येयतमः 'प्रस्तावाद् भागश्च' उत्कृष्टा भवति कृष्णायाः ‘स्थितिरिति [प्रक्रमः]' एवंविधविमध्यमायुषामेव भवनपति-व्यन्तराणामुत्कृष्टा द्रष्टव्या ॥४८॥ नीलायाः स्थितिमाह जा किण्हाइ ठिई खलु उक्कोसा सा उ समयमब्भहिया । जहन्नेणं नीलाए पलियमसंखं च उक्कोसा ॥४९॥ व्याख्या या कृष्णायाः स्थितिः 'खलुरलङ्कारे' उत्कृष्टाऽनन्तरोक्ता सा तु सैव समयाभ्यधिका जघन्येन नीलायाः, तेषां जघन्यतोऽप्येतावत्स्थितिकत्वात् । 'पलियमसंखं च'त्ति पल्योपमासङ्ख्येयभागश्चोत्कृष्टा स्थितिर्नवरं बृहत्तरोऽयं भागः ॥४९॥ जा नीलाइ ठिई खलु उक्कोसा सा उ समयमब्भहिया । जहन्नेणं काऊए पलियमसंखं च उक्कोसा ॥५०॥ व्याख्या-या नीलायाः स्थितिरुत्कृष्टा सैव समयाभ्यधिका जघन्येन कापोतायाः । पल्योपमासङ्ख्येयभागश्चोत्कृष्टस्थितिरेतावदायुषां भवनपतिव्यन्तराणामिहापि पूर्वस्माद् बृहत्तमा भागो ज्ञेयः ॥५०॥ इत्थं निकायद्वस्याद्यलेश्यात्रयमुक्त्वा चतुर्निकायसम्भाविनी तेजोलेश्यास्थितिमाह तेण परं वोच्छामि तेऊलेसा जहा सुरगणाणं । भवणवइ-वाणमंतर-जोइस-वेमाणियाणं च ॥५१॥ व्याख्या-ततः परं प्रवक्ष्यामि तेजोलेश्यां यथा येनावस्थानप्रकारेण सुरगणानां भवति 'तथेत्युपस्कारः' । केषाम् ? इत्याह-भवनपति-व्यन्तर-ज्योतिर्वैमानिकानाम् 'चः पूरणे' ॥५१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy