________________
चतुस्त्रिंशं लेश्याध्ययनम्
८१५ मेतावत्स्थितिकानामेव । त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा भवति कृष्णायाः 'स्थितिरिति प्रक्रमः' । इयं च महातमःप्रभायामेतावदायुषामेव । इह च नारकाणामुत्तरत्र देवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात् । उक्तं हि
"देवाण णारयाण य दव्वलेसा हवंति एयाओ।
भावपरावत्तीए सुरः णेरड्याण छल्लेसा" ॥१॥ इति गाथात्रयार्थः ॥४१-४३।। पूर्वोक्तं निगमयन्नुत्तरग्रन्थं प्रस्तावयन्नाह
एसा नेरझ्याणं लेसाणं ठिई उ वन्निया होइ ।
तेण परं वुच्छामि तिरिय-मणुस्साण देवाणं ॥४४॥ व्याख्या-स्पष्टा, नवरं 'तेण परं'ति ततः परम् ॥४४॥ प्रतिज्ञातमेवाह
अंतोमुहुत्तमद्धं लेसाण ठिई जहिं जहिं जा उ।
तिरियाण नराणं वा वज्जित्ता केवलं लेसं ॥४५॥ व्याख्या-अन्तर्मुहर्ताद्धा अन्तर्मुहूर्तकालं लेश्यानां स्थितिः 'जघन्योत्कष्टा चेति शेषः' । कासाम् ? इत्याह-यस्मिन् यस्मिन्निति पृथ्वीकायादौ सम्मूर्छितमनुष्यादौ च याः कृष्णाद्याः 'तुः पूरणे' तिरश्चां मनुष्याणां च मध्ये सम्भवन्ति । तत्र तासामेतावती स्थितिरित्यर्थः । ननु शुक्लाया अपि किमेवं स्थितिः ? न, इत्याह-वर्जयित्वा केवला शुद्धां शुक्ललेश्यामित्यर्थः ॥४५॥ अस्याः स्थितिमाह
मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुव्वकोडी उ ।
नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेसाए ॥४६॥ व्याख्या-मुहूर्तार्धं प्राग्वदन्तर्मुहूर्तमेव जघन्या । उत्कृष्टा भवति पूर्वकोटी 'तुर्विशेषणे' को विशेषः ? इत्याह-नवभिर्वपैयूंना ज्ञातव्या शुक्ललेश्यायाः 'स्थितिरिति प्रक्रमः' । इह पूर्वकोट्यायुषोऽष्टवार्षिकस्य व्रतपरिणामे सत्यपि न शुक्ललेश्यासम्भव इति नववर्षोनत्वमुक्तम् ॥४६॥
१. देवानां नारकाणां च द्रव्यलेश्या भवन्त्येताः । भावपरावृत्त्या सुर-नैरयिकाणां षड्लेश्याः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org