________________
८१४
उत्तरज्झयणाणि-२ लेश्यायाः । इहोत्तरत्र च समप्रविभागलक्षणस्यार्धशब्दार्थस्याविवक्षितत्वान्मुहूर्तार्धशब्देनान्तर्मुहूर्तमेव ज्ञेयम् । मुहूर्तशब्देन च पूर्वोत्तरसम्भवसम्बन्ध्यन्तर्मुहूर्तद्वयं द्रष्टव्यम् ।। मुहूर्ता) तु जघन्या, दशेति दशसङख्यानि उदधय इत्युदध्युपमानि सागरोपमाणीत्यर्थः । पल्योपमासङ्ख्येयभागाभ्यधिकान्युत्कृष्टा भवति स्थितिर्नीललेश्यायाः । इह पूर्वोत्तरभवान्तर्मुहूर्तद्वयप्रक्षेपेऽपि पल्योपमासङ्ख्येयभाग एव । असङ्ख्येयभागानामसङ्ख्येयभेदत्वादिति भावः । एवमुत्तरत्रापि भावनीयम् ॥ उत्तरसूत्रेष्वक्षरसंस्कारस्तु कृत एव, नवरं त्रय उदधयः सागरोपमाणि ॥ द्वावुदधी द्वे सागरोपमे ॥ दशोदधयो दश सागरोपमामि || मुहूर्ताऽर्धं तु जघन्या, त्रयस्त्रिंशत् सागरोपमाणि मुहूर्ताधिकानि । मुहूर्तार्धशब्देनान्तमुहूर्तकालमेव प्राग्वत् । इति गाथाषट्कार्थः ॥३४-३९।। पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह
एसा खलु लेसाणं आहेण ठिई उ वन्निया होइ ।
चउसु वि गईसु इत्तो लेसाण ठिई उ वुच्छामि ॥४०॥ व्याख्या स्पष्टा । नवरमोघेन सामान्येन गत्यविवक्षयेत्यर्थः । चतसृष्वपि गतिषु नरकादिषु 'प्रत्येकमिति शेषः' । अत ओघस्थित्यनन्तरं लेश्यानां स्थितीर्वक्ष्ये ॥४०॥ तामेवाह
दस वाससहस्साई काऊए ठिई जहन्निया होइ । तिन्नुदही पलियमसंखभागं च उक्कोसा ॥४१॥ तिण्णुदही पलियमसंखभागो उ जहन्न नीलठिई । दस उदही पलियवमसंखभागं च उक्कोसा ॥४२॥ दस उदही पलियमसंखभागं जहन्निया होइ ।
तित्तीससागराइं उक्कोसा होइ किण्हाए ॥४३॥ आसां व्याख्या-दश वर्षसहस्राणि कापोतायाः स्थितिर्जघन्यिका भवति, त्रय उदधयः सागरोपमाणि पल्योपमासङ्ख्येयभागश्चोत्कृष्टा । इयं च जघन्या रत्नप्रभायाः, तस्यां जघन्यतो दशवर्षसहस्रायुष्ट्वात् । उत्कृष्टा च वालुकाप्रभोपरितनप्रस्तटनारकाणामेतावत्स्थितिकानामिति ॥ त्रय उदधयः पल्योपमासङ्ख्येयभागश्च 'मकारोऽलाक्षणिकः' जघन्या स्थितिर्नीलाया वालुकायामेतावत्स्थितिकानामेव । उत्कृष्टा च दशोदधयः पल्योपमासङ्ख्येयभागश्च धूमप्रभोपरितनप्रस्तटनारकाणामेतावत्स्थितीनाम् ॥ दशोदधयः पल्योपमासङ्ख्येयभागश्च जघन्यिका भवति स्थितिधूमप्रभाया
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org