SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ चतुस्त्रिंशं लेश्याध्ययनम् कापोतलेश्यालक्षणमाह वंके वंकसमायारे नियडिल्ले अणुज्जुए । पलिउंचग ओवहिए मिच्छद्दिट्ठी अणारिए ॥२५॥ उप्पासगदुट्टवाई य तेणे यावि य मच्छरी । एयजोगसमाउत्तो काउलेसं तु परिणमे ॥ २६ ॥ अनयोर्व्याख्या- वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिः शाठ्यं तद्वान् मनसा, अनृजुकः कथञ्चिद् ऋजूकर्तुमशक्यतया, 'पलिउंचग'त्ति प्रतिकुञ्चकः स्वदोषप्रच्छादकतया, उपधिना छद्मना चरत्यौपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजशिष्यानुग्रहायोपात्तानि । मिथ्यादृष्टिरनार्यः प्राग्वत् ॥ ' उप्पासग'त्ति उत्प्रासकं यथा उत्प्रास्यते, दुष्टं च रागादिदोषवद् यथा स्यादित्येवंवदनशील उत्प्रासकदुष्टवादी, 'चः समुच्चये' स्तेनश्चौरः, 'अपि चेति पूरणे' मत्सरः परसम्पदसहनं स विद्यतेऽस्येति मत्सरी । एतद्योगसमायुक्तः कापोतलेश्यां परिणमेत् 'तुः पुनः' इति सूत्रद्वयार्थः ॥२५-२६॥ तेजोलेश्यालक्षणमाह नीयावत्ती अचवले अमाई अकुतूहले । विणीयविणए दंते जोगवं उवहाणवं ॥२७॥ पियधम्मे दधम्मेऽवज्जभीरू हिएसए । एयजोगसमाउत्तो तेउलेसं तु परिणमे ॥ २८ ॥ ८११ अनयोर्व्याख्या-नीचैर्वृत्तिः काय-मनो- वाग्भिरनुत्सिक्तो ऽचपलोऽमायी । अकुतूहल: कुहुकादिष्वकौतुकवान्। विनीतविनयः कृतगुर्वाद्युचितप्रतिपत्तिः । दान्त इन्द्रिय-नोइन्द्रियदमेन । योगः स्वाध्यायादिव्यापारस्तद्वान् । उपधानं श्रुतोपचारस्तद्वान् । प्रियधर्माऽभीष्टधर्मानुष्ठानो दृढधर्माऽङ्गीकृतव्रतादिनिर्वाहकः । यतोऽवद्यभीरुः पापभीरुः पापभीलको हितैषको मुक्तिगवेषकः । एतद्योगसमायुक्तः तेजोलेश्यां तु परिणमेदिति गाथायुगलार्थः ॥२७-२८॥ पद्मलेश्यालक्षणमाह पयणुकोह - माणे य मायालोभे य पयणुए । पसंतचित्ते दंतप्पा जोगवं उवहाणवं ॥२९॥ तहा य पयणुवाई य उवसंते जिइंदिए । एयजोयसमाउत्तो पम्हलेसं तु परिणमे ॥ ३०॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy